This page has not been fully proofread.

१४८
 
पादाङ्गुलीभिर्युधि कंडपि केऽपि कराङ्गुलीभिः परिचूर्णनीयाः ।
वात्या द्विषोऽमी शतमित्यमषीत् कृष्णासुतैः पञ्चभिरण्यभाषि ॥
श्रहिपतिमुखगङ्गामुखपङ्कजद्लरविकरेन्द्रनेत्राणि
विश्वामित्राश्रमवर्षार्जुनभुजसामवेदशाखाश्च
पुण्यनरगष्टचन्द्राः सहस्रसंख्या अमी ज्ञेयाः ॥ २७८ ॥
 
॥ २७७ ॥
 

 
यथा-
अमरचन्द्रगतिकृता- [ प्रतानः ४-
Plea
 
सहस्रपत्रपत्राणां प्रत्येकं स्मेरताकृते ।
 
सहस्रकरविस्तारं किं सहस्रकरोऽकरोत् ॥
 
एवमत्र ग्रन्थगौरवभयाद सङ्कलिता अपि संख्याः काव्योपयोगाथ प्रेक्षावद्भिः प्रेक्ष्याः ॥
 
इति श्रीजिनदत्त० अर्थसिद्धि प्रताने चतुर्थे संख्यास्तबकः षष्ठः ॥
 
अथ समस्याक्रमः ---
 
कल्पादि सिन्धुलघुभिर्गुरुता
 
लघो: पदार्थस्य कल्पादिकालेन सिन्धुना लघुभिश्च गुरुता विधेया ।
कल्पादिकल्पना यथा-
कल्पादिकाले गुरुदेहदेशा 'पिपीलिका राजति शैलतुल्या' ।
तस्मिंश्च सत्यं धरणीधरोऽपि विगाहते देवगिरीन्द्रशोभाम् ॥
 
यतः कल्पादौ सर्वोऽपि पदार्थो गुरुतरो भवति ततः सर्वत्रापि लघुपदार्थस्यौ-
चित्येन कल्पादौ गुरुत्वमारोप्यम् ।
 
सिन्धुना यथा -
 
अहो पयोराशिविलासियादः 'पिपीलिका राजति शैलतुल्या' ।
सदा जनानां महतां निषङ्गो दत्ते लघूनामपि गौरवाणि ॥
 
यावन्तो दृश्यन्ते नरकरितुरगादयः स्थले जीवाः ।
तावन्तः सलिलेष्वपि जलपूर्वास्तेऽपि निर्दिष्टाः ॥ २७९ ॥
ततः समुद्रस्थितानां लघूनामपि जीवानां गुरुत्वमस्त्वेव । लघुभिर्यथा-
कुन्थुप्रमाणेन महत्तमाङ्गी 'पिपीलिका राजति शैलतुल्या' ।
यस्मादधोधः परिदर्शनेन सदा लघूनामपि गौरवाणि ॥
इत्यादि । एवं रीतित्रयमध्यात् यत्र या या रीतिरौचित्येन घटते तथा तया
रीत्या सर्वत्रापि लघुपदार्थस्य गुरुताऽऽरोप्या ॥
 
युगान्तदूरावलोकगुरुभिर्लघुता विधेया ।
 

 
गुरुपदार्थस्य युगान्तेन दूरावलोकेन गुरुभिश्च लघुता विधेया । युगान्तेन यथा-
कल्पान्तकालनलिनीकृतदेहदेशः 'शैलो बिभर्ति परमाणुसमत्वमेषः' ।
पूर्वं युगादिसमये बिभराम्बभूव यो जातरूपधरणीधरसन्निभत्वम् ॥
यतः कल्पान्ते सर्वे पदार्था लघवः सम्भवन्ति, ततः कल्पान्तेन गुरुपदार्थस्य
लघुस्वमारोव्यम् । दूरावलोकनेन यथा-