This page has been fully proofread once and needs a second look.

काव्यकल्पलतावृत्तिः ।
 
प्रथमजिनभवाद्योषा विश्वेदेवास्त्रयोदश भवेयुः ।
 

 
यथा-
-
 
आद्यो जिनः पातु जगन्ति यस्त्रयोदशक्रियास्थानविमुक् त्रयोदशे ।.

जातो भवेत्तीर्थंकरः परं गुणस्थतद्गुणस्थानमगात् त्रयोदशात् ॥

 
विद्यास्थानस्वरभुवन रत्न रत्नपुरुषान्वया स्वप्नाः ॥ २७१ ॥

 
जीवाजीवोपकरणगुणमार्गणरज्जुसूत्रपूर्वभिदाः ।

कुलकर पिण्डप्रकृतिस्रोतस्विन्यश्चतुर्दश तु ॥ २७२ ॥
 
स्तबक: ६ ]
 

 
यथा-
-
 
यो गर्भाश्रयणे चतुर्दशशुभ स्वप्नाभिसंसूचितो
 
www.
 

यो जन्माधिगमाच्चतुर्दशमहापुपूर्वाब्धि नापारङ्गमः ।

यज्ज्ञानैकतटे चतुर्दश लसद्रज्जुद्प्रमाणाणोपमा
 

लोकाः किं तु चतुर्दशो ज्जिनपतिः सोऽनन्तजित् पातु वः ॥

 
परमधार्मिकतिथयश्चन्द्रकलाः पञ्चदश भवन्तीह
 

 
यथा-
तिथि तिथि
-
 
तिथिं तिथिं
प्रतिस्वर्गि भोग्यैकैककलाधिका ।

कलां यस्येशपूजाऽऽसीदेकः इलाध्यः स चन्द्रमाः ॥
 

 
शुक्रार्चिषः शशिकला विद्यादेव्यश्च षोडश भवन्ति ॥ २७३ ॥
 

 
यथा-
-
 
विधोः कलैका हरमूर्ध्नि भालमस्या वितेने विधिरेकया च ।

इति द्वितीयादिनिशासु दृश्या वृद्धौ कलास्तस्य चतुर्दशैव ॥
 

 
सप्तदश संयमाश्चाऽष्टादश विद्याः पुराणानि ।
द्वीपाः स्मृतयो ज्ञाताध्ययनान्येकोनविंशतिमितानि ॥ २७४ ॥
 
यथा-
यथा-
-
 
अष्टादशाऽध्यैष्ट सुधीः स विद्यास्त्वष्टादशद्वीपनृपान् विजिग्ये ।

दधौ च धर्मं स्मृतिभिः पुराणैर्विस्पष्टमष्टादशभिः प्रणीतम् ॥

 
करशाखाः श्रीभर्तुविंशोपकाः सकलजननखाङ्गुल्यः ।
दर्

शकन्धरनेत्रभुजास्तु संख्यया विंशतिर्वाच्याः ॥ २७५ ॥
 
-
 
१४७
 
सप्तदश संयमाचाऽष्टादश विद्याः पुराणानि ।
द्वीपाः स्मृतयो ज्ञाताध्ययनान्ये कोनविंशतिमितानि ॥ २४ ॥
 

 
यथा--
 
विंशत्या नयनैर्दोभिविंशत्या दशकन्धरः ।
 

पश्यन् श्लिष्यन् व्यधाद्धध्वाः स विंशतिगुणं सुखम् ॥

 
कमलदलरावणाङ्गुलिशतमखजलधियोजनानि स्युः ।

शतपत्रपत्रादि मजिनसुतधृतराष्ट्रनृपतिसुताः ॥ २७६ ॥

 
जपमालामणिहारस्रजो त्र स्ररुक्कोकीचकाः शतप्रमिताः ।
 

 
यथा-
-
 
हस्तेन चेदिक्षितिपः शतघ्नीमुदास घात्याः शतमित्यमर्षात् ।

स्थाप्याश्च पञ्चेति महीं महाङ्घ्रिघातेन चक्रेऽङ्गुलिघातचिन्हाह्नाम् ॥