This page has not been fully proofread.

काव्यकल्पलतावृत्तिः ।
 
प्रथमजिनभवाद्योषा विश्वेदेवास्त्रयोदश भवेयुः ।
 
यथा-
आद्यो जिनः पातु जगन्ति यस्त्रयोदशक्रियास्थानविमुक् त्रयोदशे ।.
जातो भवेत्तीर्थंकरः परं गुणस्थतद्गुणस्थानमगात् त्रयोदशात् ॥
विद्यास्थानस्वरभुवन रत्न पुरुषान्वया स्वप्नाः ॥ २७१ ॥
जीवाजीवोपकरणगुणमार्गणरज्जुसूत्रपूर्वभिदाः ।
कुलकर पिण्डप्रकृतिस्रोतस्विन्यश्चतुर्दश तु ॥ २७२ ॥
 
स्तबक: ६ ]
 
यथा-
यो गर्भाश्रयणे चतुर्दशशुभ स्वप्नाभिसंसूचितो
 
www.
 
यो जन्माधिगमाच्चतुर्दशमहापुर्वाब्धि नारङ्गमः ।
यज्ज्ञानैकतटे चतुर्दश लसद्रज्जुद्रमाणापमा
 
लोकाः किंतु चतुर्दशो ज्जिनपतिः सोऽनन्तजित् पातु वः ॥
परमधार्मिकतिथयश्चन्द्रकलाः पञ्चदश भवन्तीह
 
यथा-
तिथि तिथि प्रतिस्वर्गि भोग्यैकैककलाधिका ।
कलां यस्येशपूजाऽऽसीदेकः इलाध्यः स चन्द्रमाः ॥
 
शुक्रार्चिषः शशिकला विद्यादेव्यश्च षोडश भवन्ति ॥ २७३ ॥
 
यथा-
विधोः कलैका हरमूनि भालमस्या वितेने विधिरेकया च ।
इति द्वितीयादिनिशास दृश्या वृद्धौ कलास्तस्य चतुर्दशैव ॥
 
यथा-
यथा-
अष्टादशाऽध्यैष्ट सुधीः स विद्यास्त्वष्टादशद्वीपनृपान् विजिग्ये ।
दधौ च धर्म स्मृतिभिः पुराणैर्विस्पष्टमष्टादशभिः प्रणीतम् ॥
करशाखाः श्रीभर्तुविंशोपकाः सकलजननखाङ्गुल्यः ।
दर्शकन्धरनेत्रभुजास्तु संख्यया विंशतिर्वाच्याः ॥ २७५ ॥
 
-
 
१४७
 
सप्तदश संयमाचाऽष्टादश विद्याः पुराणानि ।
द्वीपाः स्मृतयो ज्ञाताध्ययनान्ये कोनविंशतिमितानि ॥ २४ ॥
 
विंशत्या नयनैर्दोभिविंशत्या दशकन्धरः ।
 
पश्यन् लिष्यन व्यधाद्धध्वाः स विंशतिगुणं सुखम् ॥
कमलदलरावणाङ्गुलिशतमखजलधियोजनानि स्युः ।
शतपत्रपत्रादि मजिनसुतधृतराष्ट्रनृपतिसुताः ॥ २७६ ॥
जपमालामणिहारस्रजो ऽत्र रुक्कोचकाः शतप्रमिताः ।
 
यथा-
हस्तेन चेदिक्षितिपः शतघ्नीमुदास घात्याः शतमित्यमर्षात् ।
स्थाप्याश्च पञ्चेति महीं महाङ्घ्रिघातेन चक्रेऽङ्गुलिघातचिन्हाम् ॥