This page has not been fully proofread.

काव्यकल्पलतावृत्तिः ।
 
॥ २३५ ॥
 
अवश्यायाम्बुकर्पूरजलचन्द्रोपलद्रवाः
तेजस्विनो रविश्चन्द्रतारानिस्वर्णपारदाः ।
नेत्रदन्तनखादर्शा रूप्यं कांस्याभ्रके मणिः ॥ २३६ ॥
सूर्येन्दुकान्त खद्योतमुक्ताविद्रुमहीरकाः ।
पद्मरागो मरकतं वैदूर्य राजपट्टकः ॥ १३७ ॥
सुरूपा मदनस्कन्दानिरुद्धनलकूबराः ।
अश्विनीपुत्रनकुलनलदेवाः पुरुरवाः ॥ २३८ ॥
दानिनः कामधुकूचिन्तामणिकल्पद्रुमावलिः ।
जीमूतवाहनः कदधीचिशिबिविक्रमाः ॥ २३९ ॥
धन्विनः शिवकृष्णेन्द्रा भार्गवो रामलक्ष्मणौ ।
पार्थभीष्मकृपद्रोण द्रौणिकाष्रार्थभिमन्यवः ॥ २४० ॥
आधारा: स्वर्नभोभूदिक्पातालाद्रिवद्रुमाः ।
तीरग्रामपुरागारप्रासादाः शयनासने ॥ २४१ ॥
पुर्योऽमरावती भोगावती लङ्काऽलका तथा ।
विदर्भा मिथिलाऽयोध्या कान्यकुब्जं कुशस्थलम् ॥२४२ ॥
कौशाम्बी त्रिपुरी काशी मथुरा हस्तिनापुरम् ।
अवन्ती पाटलिपुत्रं चम्पा द्वारावती गया ॥ २४३ ॥
विदिशा निषधा कोटीवर्षं काञ्ची तमालिनी ।
 
माहिष्मती भृगुकच्छः काम्पिल्यं वारणावतम् ॥ २४४ ॥
 
स्तबकः ४ ]
 
राजानः पृथुमान्धातृधुन्धुमाराः पुरुरुरवाः ।
हरिश्चन्द्रो भरतश्च कार्तवीर्ययुधिष्ठिरौ ॥ २४५ ॥
मनुः काकुत्स्थसगरौ भगीरथनलौ रघुः ।
अजो दशरथो रामकुशौ श्रेणिकसम्प्रती ॥ २४६ ॥
विद्वनृपाः प्रतिष्ठाने शालिवाहनभूपतिः ।
उज्जयिन्यां विक्रमार्कमुखभोजनरेश्वराः ॥ २४७ ॥
मन्त्रिणो वाक्पतिः शुक्रो जाम्बवान् माल्यवानपि ।
सालङ्कायनकूष्माण्डश्रुतशीलास्तथोद्धवः ।
यौगन्धरायणो मुद्राराक्षसवणकात्मजः ॥ २४८ ॥
इति श्रीजिनद अर्थसिद्धिप्रताने चतुर्थे प्रकीर्णकः पञ्चमः स्तबकः ।
 
१४३
 
अथ सहन्यातोऽर्थोत्पत्तिः कथ्यते -
 
औचित्यरचितैः संख्याबन्धबन्धुरितक्रमैः ।
उपमाद्यैरलङ्कारैः सुधीरथं समर्थयेत् ॥ २४९ ॥
यदैकसंख्यः पदार्थो विवक्षितः स्यात्तदैकसंख्या अन्येऽपि पदार्थाः । यदा हि