This page has not been fully proofread.

स्तबकः ४ ]
 
काव्यकल्पळतावृत्तिः ।
 
मधुरध्वनयो हंसमयूरपिकसारसाः ।
कामिनी कुररः कङ्ककारपाराव नालिनः ॥ २०१ ॥
चातकः ककुहः केतुकिङ्कियौ घर्घरावली ।
 
वेदना हृतनादश्व बालादिपदघर्घराः ॥ २०२ ॥
वेणुवीणा दिमञ्जीर
मेखलाकङ्कणकणाः ।
गन्धर्वाप्सरसौ हाहाहूहू तुम्बुरुकिन्नराः ॥ २०३ ॥
गान्धारगायिनो हंसा: कंकिनः षड्जके किनः ।
कोकिलाः पञ्चमोल्लापाः क्रौञ्चा मध्यमराविणः ॥ २०४ ॥
कलभा निषादरावा धैवतध्वनयो हयाः ॥ २० ॥
वृषभा ॠऋषभारावा विशेयाः स्वरवेदिभिः ॥ २०६ ॥
कठोररटिता घूकघरट्टकरभा: खराः ।
मण्डूककोलकाकोलकपोताः कुक्कुरः शिवा ।
 
कपाटानां खटात्काराः शृङ्खलानिगडारवाः ॥ २०७ ॥
षट्पदी ।
 
महाशब्दा घनेन्द्रेभतार्यपत्राब्धिवीचयः ।
अब्धिमन्थः शिवस्याट्टहासस्तु डमरुध्वनिः ॥ २०८ ॥
सिंहोष्ट्र हनुमद्रक्षःचवेडासांराविणो रवाः ।
नान्धब्धिकृष्णशङ्खौघमल्लदोः स्फालनध्वनिः ॥ २०९ ॥
निर्घातरथघोषज्याटङ्कारो गजवाजिनः ।
 
भटढक्काः शिखोद्धारस्फारनिर्भरघर्घराः ॥ २१० ॥
घण्टाश्चैत्यगजादीनां कन्दरादिप्रतिध्वनिः ।
वीराणां निनदो दूराकरणं रुदितारवः ॥ २११ ॥
ततं वीणाप्रभृतिकं तालप्रभृतिकं घनम् ।
वंशादिकं तु सुषिरं विततं मुरजादिकम् ॥ २१२ ॥
एतच्चतुर्विधं वाद्यं बन्दी पञ्चारवो मतः ।
नान्दी द्वादशतूर्याणां निर्घोषो नाटकादिषु ॥ २१३ ॥
भम्भा मउन्द मद्दल करडा झल्लर हुडुक्क कसाला ।
भेरी तिलिमा वंसो सङ्घो परणवोध नाडऐ नन्दी ॥ २१४ ॥
टुक्का ढक्का डमरु जकाहल बुक्क भेरि लाणयं पवुहो ।
जुग सङ्घ जरड योगा पमहल कंसाल रणे नन्दी ॥ २१५ ॥
सगन्धानि तु कर्पूरकस्तूरीयक्ष कर्दमाः ।
 
वासो मलयजं धूपोऽगुरुर्मीनमदो यशः ॥ २९६ ॥
सुगन्धितैलं स्वर्गदुपुष्पाणि कुसुमद्रुतिः ।
 
१४१
 
पद्मिनीस्त्रीमुखं मेघसिक्तोर्वीग्रन्थिपर्णकः ॥ २१७ ॥
जातीपत्रोलवला कक्कोलौ जातिकाफलम् ।