This page has been fully proofread once and needs a second look.

अमरचन्द्रयतिकृता-
एकविंशत्यक्षरम् - --विज्ञेया स्रग्धराऽसौ मरभनययया वाहवाहैर्य तिश्चेत् ।
 

 
अर्द्धसमम् - --अयुजि ननरजा भवन्ति पादे युजि च नजौ जरगाश्च पुष्पिताग्रा ।

विषमे ससजा गुरू समे स्युः सभरा यौ यदि मालभारिणी सा । एतावौपच्छन्दसिक-

भेदौ । विषमे ससजा गुरुः समे सभरा ल्गौ तु तदा प्रबोधिता, अयं वैवेतालीय-
भेदः ।
 

 
अथ आर्यालक्षणम् -
 
तद्धितशब्दैर्यथा-
--
 
यस्यां सप्तचतुष्कलगणा गुरुश्च जगणो न विषमे स्यात् ।

जः षष्ठोऽर्थ नलघुकौ पूर्वार्द्धे जगुरिमामार्याम् ॥ २३ ॥

 
षष्ठे द्वितीयलात् परके न्ले मुखलाञ्च्च यदिह पदघटना ।

अपरार्धे पञ्चमके मुखलादिह भवति षष्ठो लः ॥ २४ ॥

 
अन्यत् आर्याछन्दो मत्कृतच्छन्दो मत्कृतच्छन्दोरत्नावल्यां ज्ञेयमिति । पुनश्च्छन्दोऽभ्यासोपायमाह -
 
--
 
चतुष्कतद्धिताख्यात कृत्स्यादित्यादिसम्भवैः ।

कर्तृकर्मादिसित्यादिविभक्त्युत्थविशेषजैः ॥ २५ ॥

 
समाससंश्रितैर्नाममा लोत्थैर्यौगिकैरपि ।

निरर्थैरर्थसंयुक्तैर्लाटानुप्राससंयुतैः ॥ २६ ॥

 
षड्भाषासम्भवैः शब्दैरभ्यसेच्छब्दभेदजैः ।

 
शब्दैरिति सर्वत्र सम्बन्धनीयम् । चतुष्कशब्देदैर्यथा-
-
 
दण्डाग्रं सा गता नारी दुधीदं हि नदीयते ।

मधूदकं वधूढा सा तवेहा सेयमङ्गना ॥
 
आख्यात

 
तद्धित
शब्दैर्यथा-
कृतशब्देर्यथा-
-
 
-
 
इदानीमधुना सद्यः कुत्र यत्रं यथा तथा ।

सर्वथा सर्वदा श्रीधीमान् बहुधाऽनेकधा कथम् ॥
 

 
आख्यातशब्दैर्यथा--
 
करोति तनुते वेत्ति वक्ति जानाति पृच्छति ।

भुङ्क्ते भक्षयति प्साति स्तौति रौति न वाति च ॥
 

 
कृत्शब्दैर्यथा--
 
अलङ्करिष्णुन्दारुभासुरस्पृहयालत्रः ।
वः ।
संविधाय विधातुं स भेजिवान् कृतवानपि ॥
 

 
स्यादिशब्दैर्यथा-
[ प्रतानः १-

 
हंसो हंसौ शुभौ हंसा हंसं हंसौ च हंसकान् ।

हंसेन वरहंसाभ्यां हं सैर्हंसाय शोभिने ॥
भते ॥
 
हंसाभ्यां राजहंसेभ्यो हंसात् हंसस्य हंसयोः ।

हंसानां प्रवरे हंसे हंसयोर्हंसकेष्वपि ॥

 
बाला वाबाले वरा बाला बालां लाम्बाले मनोरमे ।