This page has not been fully proofread.

अमरचन्द्रयतिकृता-
एकविंशत्यक्षरम् - विज्ञेया स्रग्धराऽसौ मरभनययया वाहवाहैर्य तिश्चेत् ।
 
अर्द्धसमम् - अयुजि ननरजा भवन्ति पादे युजि च नजौ जरगाश्च पुष्पिताग्रा ।
विषमे ससजा गुरू समे स्युः सभरा यौ यदि मालभारिणी सा । एतावौपच्छन्दसिक-
भेदौ । विषमे ससजा गुरुः समे सभरा लगौ तु तदा प्रबोधिता, अयं वैतालीय-
भेदः ।
 
अथ आर्यालक्षणम् -
 
तद्धितशब्दैर्यथा-
यस्यां सप्तचतुष्कलगणा गुरुश्च जगणो न विषमे स्यात् ।
जः षष्ठोऽर्थ नलघुकौ पूर्वार्द्ध जगुरिमामार्याम् ॥ २३ ॥
षष्ठे द्वितीयलात् परके न्ले मुखलाञ्च यदिह पदघटना ।
अपरार्धे पञ्चमके मुखलादिह भवति षष्ठो लः ॥ २४ ॥
अन्यत् आर्याछन्दो मत्कृतच्छन्दोरत्नावल्यां ज्ञेयमिति । पुनश्छन्दोऽभ्यासोपायमाह -
 
चतुष्कतद्धिताख्यात कृत्स्यादित्यादिसम्भवैः ।
कर्तृकर्मादिसित्यादिविभक्त्युत्थविशेषजैः ॥ २५ ॥
समाससंश्रितैर्नाममा लोत्थैर्यौगिकैरपि ।
निरर्थैरर्थसंयुक्तैर्लाटानुप्राससंयुतैः ॥ २६ ॥
षड्भाषासम्भवैः शब्दैरभ्यसेच्छब्दभेदजैः ।
शब्दैरिति सर्वत्र सम्बन्धनीयम् । चतुष्कशब्देर्यथा-
दण्डाग्रं सा गता नारी दुधीदं हि नदीयते ।
मधूदकं वधूढा सा तवेहा सेयमङ्गना ॥
 
आख्यात शब्दैर्यथा-
कृतशब्देर्यथा-
-
 
इदानीमधुना सद्यः कुत्र यत्र यथा तथा ।
सर्वथा सर्वदा श्रीमान् बहुधाऽनेकधा कथम् ॥
 
करोति तनुते वेत्ति वक्ति जानाति पृच्छति ।
भुङ्क्ते भक्षयति साति स्तौति रौति न वाति च ॥
 
अलङ्करिष्णुचन्दारुभारस्पृहयालत्रः ।
संविधाय विधातुं स भेजिवान् कृतवानपि ॥
 
स्यादिशब्दैर्यथा-
[ प्रतानः १-
हंसो हंसौ शुभौ हंसा हंस हंसौ च हंसकान् ।
हंसेन वरहंसाभ्यां हं हंसाय शोभिने ॥
हंसाभ्यां राजहंसेभ्यो हंसात् हंसस्य हंसयोः ।
हंसानां प्रवरे हंसे हंसयोहंसकेष्वपि ॥
बाला वाले वरा बाला बालां बाले मनोरमे ।