This page has not been fully proofread.

१३८
 
यथा-
BOUGAR
 
अमरचन्द्रयतिकृता-
उपाध्यायात् प्रभोमिंत्रात् सेवकाजातिभावतः ॥ १६ ॥
सङ्गात्तङ्गुणसंक्रान्तिः
 
राजन् ! दानजितेव सेवनविधि निस्त्रिशलेखामिषा-
देषा कल्पलता प्रकल्प्य नियतं त्वत्पाणिपङ्केरुहान् ।
सङ्कल्पाधिकदान कल्पनकलां वेत्ति स्म तस्माद्विषां
क्षोणीभोगसुखार्थिनां वितरति स्वर्भोगसौख्यान्यपि ॥
किं त्वया शिक्षितं लक्ष्मि ! पितुः कल्लोलचापलम् ।
यत् त्वं नैकत्र कुत्रासि स्थिरत्वं प्रतिपद्यसे ।
 
एतेभ्योऽपि न सा क्वचित् ।
उपाध्यायादिभ्योऽपि सा तद्गुणसंक्रान्तिर्न स्यात् । यथा -
द्विजधनवर्जितमेतद्भवद्भवे यशसि किं न संक्रान्तम् ।
सकृतैकवेदम यस्माद द्विजराजश्रीर्हताऽनेन ॥
 
यथा-
[ प्रतानः ४-
श्राहारसद्गशोद्गारद्युत्युद्भवविपर्ययैः ॥ १६२ ॥
 
वस्तुनि औचित्यादाहारसदृशयो रुद्वारदेहवर्णयोरुद्भावः कल्पनीयः । काव्याहारा-
देतयोविपर्ययः कार्यः । क्रमाद्यथा-
अतिलौल्यतः कवलयन् मलिनद्युति काननं किमपि दावशिखी ।
बहुभक्षणेन शितिधूममिषात्तनुते स्म भोजनवदुद्भिरणम् ॥
द्विषन्मृगाक्षीनयनाञ्जनानि यदेष नित्यं कवलीकरोति ।
क्षितीश ! तेनाऽशनिसन्निभैव विभा विभाति स्म भवत्कृपाणे ॥
विपर्ययो यथा -
 
यद्वदन्त्यशनसन्निभमेवोद्गारमित्यनृतमत्र बभासे ।
गीतकं यदुदगारि सुधावत्पीतसीधुभिरपि प्रमदाभिः ॥
सिच्यमानमपि शत्रुकामिनीकज्जलाविलविलोचनाश्रुभिः ।
 
आहताsसितमनोऽपि भासते वेतभानुसममेव यद्यशः ॥
पदार्थानां मिथः साम्यं स्यादर्थोत्पत्तिकारणम् ।
अतः सद्गशस्तूनि संगृह्यन्ते कियन्त्यपि ॥ १६३ ॥
वर्णाकारयोः सहशपदार्था उक्ताः । अपरः प्रकीर्णकः सहशवस्तुसंग्रहः क्रियते ।
 
तीक्ष्णानि प्रतिभास्त्राणि कटाक्षाः सूचिका नखाः ।
दात्रशल्लकशूलानि कुठारः क्रकचस्तथा ॥ १६४ ॥
असिपत्रद्रुपत्राणि शूलप्राजननेमयः ।
किटिदंष्ट्रा हलं सिंहनखरा मर्मभिद्वचः ॥ १६५ ॥
कुश्यकुशकुशाग्राणि खड्गधारा च हीरकः ।
कर्त्तरी कर्तिकाटङ्काबिन्धनं नखभेदिनी ॥ १६६ ॥