This page has not been fully proofread.

स्तबक: ४ ]
 
काव्यकल्पलतावृत्तिः ।
 
यथा-
यत्र स्फुरत्स्फटिकनद्धगृहाङ्गणेऽर्क संक्रान्त बिम्बमवलम्ब्य नितम्बिनीभिः ।
व्यर्थ प्रयासकरणोच्चरणाग्रसङ्गान्निश्चित्य सत्यकलशेऽपि किल प्रवृत्तम् ॥
भ्रान्तस्यापि भ्रमो यः स्वाद्विज्ञेयोऽसौ प्रतिभ्रमः ।
निद्रान्तेषु वने द्विषः सहचरीवक्षोरुहौ वीक्ष्य य
 
युग्येभोन्नतकुम्भविभ्रमभयादात रवं तेनिरे ।
ताठ त्रासनिमत्तभित्तिवलितग्रीवास वेगोलस-
द्वेणीदण्डविलोकनेन यदसिं व्याशय मूर्च्छामगुः ॥
वन्यो हस्ती स्फटिकघटिते भित्तिभागे स्वबिम्बं
 
दृष्ट्वा दूराव प्रतिगज इति त्वद्विषां मन्दिरेषु ।
हत्वा को पाकुलितरदनस्तत्पुनर्वीक्षमाणो
 
मन्दं मन्दं स्पृशति करिणीशङ्कया साहसाङ्कः ॥
अन्योन्यभ्रान्तिको भेदो यत्राऽन्योन्यं द्वयोर्भ्रमः ॥ १६० ॥
 
यथा-
जम्बूनां कुठमोद्गमे नवमधुन्याबद्धपानोत्सवाः
 
कीरा पक्कफलाशया मधुकरीश्चिन्वन्ति मुबन्ति च ।
एतेषामपि जातर्किशुकदलश्रेणीसमान त्विषां
 
पुष्पभ्रान्तिभृतः पतन्ति सहसा चबूषु भृङ्गाङ्गनाः ॥
आरूढाः संक्रमैर्यद्विपुगृहशिखराण्यूव्वमालोक्य भित्ति.
 
व्याघातादू व्यर्थयत्ता दिवि जलदगजान्नैव हिंसन्ति सिंहाः ।
अधान्तं सोऽपि तत्र प्रतिकृतकमृगारातिनित्यावलोकात्
जीर्णातको गजेन्द्रः सविधमपि भवन्नैव तेभ्यो बिभेति ॥
इत्यायने कोल्लेखै श्रमादर्थोत्पत्तिः कार्या ॥
वस्त्वन्तरकियारोपैः
 
-
 
वस्तुनि तद्विरुद्धवस्तुक्रिया चित्रार्थमारोप्यते । यथा -
इन्दुमुखी कुमुदाक्षी रम्भोरू: कमलचारुकरचरणा ।
अमृतद्रवलावण्याद् हृदयगता देवि! किं दद्दसि ॥
धनारिनारीनयनानुनी रैर्यशोलता यस्य विभाति युक्तम् ।
प्रतापवन्हिज्र्ज्वलितो यदेतैर्जग चमत्कारकरं तदेतत् ॥
शशिशुक्लाऽपि यत्कीर्तिश्चक्रेऽरिकुलकालिमाम् ।
पड़ाममपि यन्मिन्नौज्ज्वल्यं यद्वैरिदुर्यशः ॥
 
कार्यारम्भनिवृत्तिभिः ।
कार्यारम्भात्पदार्थस्य केनापि कारणेन निवृत्तिः कल्पनीया । यथा-
भुवं भुजे योऽधित याचकेभ्यो दिकुजरान् दातुमना मनस्वी ।
तदेकयुग्यं भजतां प्रभुत्वं न दिक्पतीनां कृपयाऽहरत्तान् ॥
 
१८ का० क०
 
१३७