This page has not been fully proofread.


 
यथा-
-
 
एकत्र क्वचिदेव देवसदने सम्प्रेक्ष्य साक्षात्कृत-
प्रद्योतं तपनीयकुम्भमुदयक्ष्मामृतार्कभ्रमात् ।
आश्लिष्यन्त्यनिशं निशास्वपि वियद्द्वङ्गारथयो मिल-
द्भर्तृभ्रान्तिभृतः पयोगत निजच्छायाविमुग्धाशयाः ॥
कार्यप्रवृत्तौ भ्रमतः साफल्यं जायते क्वचित् ।
 
यथा-
-
 
अमरचन्द्रयतिकृता-
मणिनद्वेषु यत्सौधाङ्गणेषु प्रतिबिम्बितम् ।
शशाङ्कं कैरवभ्रान्त्या भजन्ते भृङ्गराजयः ॥
कार्यप्रवृत्तिरन्यत्र कारणप्रत्यये भ्रमात् ॥ १५६ ॥
 
विधुमणिमयसौधप्राङ्गणे यत्र चन्द्रप्रति मितिमतिफुल्लस्कैरवभ्रान्तिभाजः ।
असकृदमृतबिन्दुस्यन्दपानेन भृङ्गाः प्रसृमरमकरन्दास्वादसौख्यं लभन्ते ॥
यत्रोन्मुखं चातकवृन्दमभ्रभ्रमेण चैत्योत्थित धूपघुमे ।
वेल्लत्पताकाग्रगृहीतमुक्तनभोनदीबिन्दुभिरेति
 
तृप्तिम् ॥
 
भ्रमात् कार्यस्य नैष्फल्ये भ्रमः सत्येऽपि वस्तुनि ॥ १५७॥
 
यथा-
यथा-
यथा-
आलियो चैः सरगृहशिरःशातकौम्भीयकुम्भान्
 
भर्तृभ्रान्त्या निशि विफलिताः स्वर्गगङ्गारथाङ्ग्यः ।
अर्कालोकादुपगतमपि प्रीतिभाजं रथाङ्गं
 
मिथ्या बुद्धा सपदि न परीरब्धुमारात् त्वरन्ते ॥
भ्रमात् कार्यस्य नैष्फल्ये सत्यप्यकरणं तथा ।
चित्रपतत्पत्रिपरुषोत्कर्षेण वेश्मान्तरे
 
मार्जारः परिजर्जरोऽजनि जवादाहत्य सत्यभ्रमात् ।
तान् विन्दन्नभिजीवतोऽपि स पुनः प्राग्भङ्गभावादभि-
व्यक्तं मुक्तविरोधबोधविषयो लोकैः समालोक्यते ॥
भ्रान्तस्य वस्तुनोऽन्यत्वं जायते भ्रमतोऽन्यतः ॥ १५८ ॥
 
[ प्रतानः ४-
M
 
चिकंसया कृत्रिमपत्रिपङ्कः कपोतपालीषु निकेतनानाम् ।
मार्जारमप्यायत निश्चलाङ्गं यस्यां जनः कृत्रिममेव मेने ॥
भ्रमज्ञातपदार्थस्य पूरणं च भ्रमान्तरात् ।
 
संक्रान्तं प्रतिबिम्बमम्बरमणेः शुभ्राश्मवेत्रमाङ्गणे
 
यत्र प्रातरयत्नपूर्णकलशभ्रान्तिं विधत्ते तथा ।
कासारप्रसरत्सरोरुह परीरम्भभ्रमेण भ्रमद्-
भृङ्गश्रेणिरिहाश्रिता शितितलभ्रान्ति यथा कल्पयेत् ॥
नैष्फल्ये भ्रमतः कार्यप्रवृत्तेः साऽथ निश्चयात् ॥ १५९ ॥