2023-04-12 04:24:56 by ambuda-bot
This page has not been fully proofread.
स्तबकः ५ ]
काव्यकल्पलतावृत्तिः ।
कुरुते । राज्ञा यशोजितश्चन्द्रो राजप्रतापमित्ररविद्वेषिणः कैरवाणि विकासयति ॥
श्रङ्गद्वेषिसुहृत्पोषैः
-
द्वेष्याङ्गद्वेषिणां ये सहृदस्तेषां जितपदार्थपार्श्वात पोषो विधेयः । यथा - नाय
मुखजितश्चन्द्रः स्त्रोकटाक्षद्वेषिषट्पदश्रेणिप्रीतिदायीनि कैरवाणि विकासयति । नाय
गतिजितो हस्ती मुखद्वेपिकमलोपासकान् भृङ्गान् दानेन पुष्णाति ॥
श्रङ्गद्वेषिद्विषद्वधैः ।
द्वेष्याङ्गद्वेषिणां यानि द्विषद्रपाणि वस्तुनि तेषां जितपदार्थ
पाश्र्वद्वषो विधातव्यः ।
यथा - नार्या धम्मिल्लजितो राहुः स्त्रीमुखद्वेषिकप्रलद्वेषिणं, नारीकुचयुग्मद्वेषिणं वा
चन्द्रं पीडयति । नार्या वेणीजिता भृङ्गश्रेणी स्त्रीमुखद्वेषिचन्द्रद्वेषिकमलानि पदाघातैः
पराभवति ॥
समानवस्तुनः शोभाचौर्यान्नाशोऽथ निग्रहः ॥ १५३ ॥
वर्ण्याङ्गसदृशं यद्वस्तु तस्य वर्ण्याङ्गशोभाचौर्य परिकल्प्य वनादिषु नाशो निग्रहो
वा कल्पनीयः । यथा - मृगा नारीनयनशोभां हृत्वा वने नष्टाः । स्त्रीमध्यश्रियं
हृत्वा सिंहो गिरिंगहरे गतः । नारीमुखलक्ष्मीहरं कमलमिति राजहंसैः खण्डशः
क्रियते । रात्रौ स्त्रीमुखलक्ष्मी हरति चन्द्र इति प्रातः कालेन छिन्नकरः क्रियते ॥
-
निपातायतनद्रव्यभङ्गाकारलङ्घनैः ।
राजवेषासनस्थानविरुद्धादि निपेवणैः ॥ १५४ ॥
अगम्यगमनापेयपानका भक्ष्यभक्षणैः ।
अपह्नवाद्भवेदिव्यं प्रायश्चित्ततदन्यतः ॥ १५५ ॥
दिव्यं यथा -
हत्वाऽपि कान्तिधनमस्य नृपस्य कीर्तेर्दिव्यं सृजन्निव जगत्यपवादभीतः ।
इन्दुः सधावपुरपि प्रभुरोषधीनामप्येष लक्ष्ममिषसपैभृतौ न शुद्धः ॥
प्रायश्चित्तकारणं यथा-
समरे यत्करवाल: पीत्वा मातङ्गकुम्भकीलालम् ।
अनुतापीव व्रतयति रिपुनृपतीनां यशः क्षीरम् ॥
अथ भ्रमप्रकारैरर्थोत्पत्तिर्यथा-
स्वस्थादिभिर्भ्रमात् कार्यप्रवृत्तिः परिकल्प्यते ।
स्वस्थच्छद्मस्थप्रतिबिम्बस्थता पूर्ववत् । क्रमाद्यथा-
Japane
नलिनानि पानमधुभाजनानि नः पिदधाति यः स विधुरेष गोचरः
इति रोषणैरिव मधुवतैर्घुतं मृदतोमुखं सरभिचारुमारुतम् ॥
ताटङ्कामुक्तमुक्ता लिच्छलतस्तारकाततिः ।
निजभर्तृभ्रमेणेयं भेजे चन्द्रमुखीमुखम् ॥
यत्र वैदूर्यवर्येषु कुट्टिमेषु तमोभ्रमात् ।
प्रतिबिम्बेन तद्भित्तौ पतिरापतति त्विषाम् ॥
भ्रमकारिणोऽपि प्रतिबिम्बता यथा -