2023-05-12 08:42:21 by manu_css
This page has been fully proofread once and needs a second look.
तदाpप्तौ दुष्कृतं विघ्नः
तपसा वर्ण्यलक्ष्माप्राप्तौ जितवस्तुनः किञ्चिद्दुष्कृतं विघ्नः कल्पनीयम् । यथा--
कमलं शम्भोरम्भोमूर्त्तेः सेवया मुखोपमामयास्यच्चेन्नित्याश्रितभृङ्गबन्धनं नाकरिष्यत् ।
विष्णुपदसेवासुकृतेन विष्णुपदी तत्कीर्तितुलनां प्राप्नुयाद्यदि नीचगमनं न कुर्यात् ॥
तदाप्तावपरं शुभम् ॥ १५० ॥
तपसा वर्ण्यशोभाप्राप्तौ सदृशवस्तुनोऽन्यदपि श्रेयः सम्भाव्यम् । यथा--कमलं
जलवासादिभिर्मुखोपमां प्राप्य लक्ष्मीस्थानं राजहंससेव्यं च बभूव । जलवासादिभिः
पाञ्चजन्यो नारीकण्ठोपमानं प्राप्य लक्ष्मीपतेरपि करारविन्दानुग्राह्यो बभूव ॥
श्रेयस्तदाप्तौ दोषेऽपि
तपसा वर्ण्यस्योपमा प्राप्तौ सदृशवस्तुनः सदोषस्यापि श्रेयः कल्पनीयम् । यथा--
जलवासादिभिमुखोपमां प्राप्तं कमलं सकण्टकमपि देवशिरांस्यधिरोहति । विष्णुपद-
सेवया गङ्गा यत्कीर्तिसमतां प्राप्य नीचगामिन्यपि शिवशिरःसंश्रयाऽऽसीत् ॥
तदाप्तौ नर्त्तनादिकम् ।
तपसा वर्ण्योपमाप्राप्तौ हर्षेण सदृशवस्तुनो नर्तनादीनि कल्पनीयानि । अमूनि
यथा--
नृत्योत्कन्धकरता स्मेरगौरवापीडपुष्टता ॥ १५१ ॥
आश्रितातिथिविप्रादिदानं देवादिपूजनम् ।
यथा--जलवासादिना स्त्रीमुखोपमां प्राप्य कमलं वातचलितपत्रैर्नृत्यं रचयति ।
राज्ञः स्थैर्योपमां प्राप्य मेरुरुत्कन्धरोऽभूत् । गम्भीर्योपमां प्राप्य जलधिः सर्वदिग्व्यापी
बभूव । मतिसमतां प्राप्य बृहस्पतिर्देवगुरुतां गतः । मुकेशकेशोपमां प्राप्य कलापी
शिखाच्छलादापीडं धत्ते । स्थैर्योपमां प्राप्य गिरिः शिरस्थमेघावलिव्याजान्मुकुटं
धत्ते । राज्ञः स्थैर्योपमां प्राप्य मेरुः स्थूलाऽभूत् । मुखशोभां प्राप्य चन्द्रः स्वाश्रित-
चकोरान् स्वेच्छया ज्योत्स्नापानं कारयति । मुखलक्ष्मीं लब्ध्वा कमलं हंसद्विजान-
तिथीन् भृङ्गानाहारदानैः प्रीणयति । मुखोपमां प्राप्य चन्द्रेण स्वकलया शिवपूजा कृता ।
एवं चले नृत्यम्, उच्चे गर्वोत्कन्धरता, विस्तीर्णे स्मेरता, पूज्ये गौरवं, शिरःस्थवस्तु-
न्यापीड:, स्थूले पुष्टता कल्पनाया । इत्याद्यनेकोल्लेखैरर्थः कल्प<error>पीयः</error><fix>नीयः</fix> ॥
अर्थोत्पत्तये प्रकारान्तरमाह--
द्वेष्यस्याङ्गसुहृद्भङ्गैः
वर्ण्यवस्तुना जितो यः पदार्थस्तस्य वर्ण्य तावद् द्वेष्यम् । ततो द्वेष्यस्य वर्ण्यस्य
यान्यङ्गानि तेषां साम्येन सुहृद्रूपाणि यानि वस्तूनि तेषां जितपार्श्वाद्भङ्गः कल्पनीयः ।
यथा--नार्या कुवाभ्यां जितः कुम्भो नारीमुखमित्राणि कमलान्युन्मूलयति । नार्या
मध्यजितः सिंहो नारीनेत्रमित्राणि मृगकुलानि भिनत्ति ॥
अङ्गविद्वेषिपोषणैः ॥ १५२ ॥
द्वेष्यस्याङ्गानां समतया द्वेषिरूपाणि यानि वस्तूनि तेषां जितपदार्थपार्श्वात् <error>पाषणं</error> <fix>पोषणं</fix>
कार्यम् । यथा--राज्ञा प्रतापजितो रविः राजयशोमित्रचन्द्रद्वेषिणः कमलानि सश्रीकानि