This page has been fully proofread once and needs a second look.

स्तबक: ५ ]
 
काव्यकल्पलतावृत्तिः ।
 
१३३
 
कमलं स्पर्धोद्भवपापै राजप्रसादविकलं सकण्टकं च जातम् । यशःस्पर्धी चन्द्रः सकलङ्कः

क्षयी च जातः ।
 

 
सु
कृतेऽपि सदोषता । वर्ण्यवस्तुनः स्पर्धापातकेन सदृशं वस्तु सुकृतं कुर्वाणमपि

सदूषणं स्यात् । यथा-- मुखस्पर्धाधां कुर्वन् चन्द्रो महेश्वरं सेवमानोऽपि सकलङ्कोऽभूत् ।

मुखस्पर्धोद्भवैः पापैः कमलं हंसद्विजानून् शरीरखण्डैरपि प्रीतान् कुर्वाणं सकण्टकं भवति ॥

 
अथ तपसार्थोत्पत्तिभेदाः-
-
 
स्यात्तपः स्वगतं छद्मगतं च प्रतिबिम्बगम् ॥ १४८ ॥

 
तपोविधिस्त्रिधा आत्मनैव स्वयं कृतं, सदृशवस्तुच्छद्मना वा कृतं, जलादिषु

प्रतिबिम्बतया वा कृतम् । त्रिविधमध्यग्रे उदाहरिष्यते ।
 
वर्

 
वर्ण्
यादिभिस्तपो वर्ण्यजितस्यैतत्कलाप्तये ।

 
वर्ण्यजितस्य वस्तुनो वण्यंर्ण्यशोभाप्राप्तये वण्यंर्ण्यजयाय वा वनादिभिस्तपः कल्पनी-

यम् । स्वगतं यथा--मुखजितं कमलं तच्छोभाप्राप्तये जलवासादि तपः कुरुते ।
 
-
 

 
छद्मगतं यथा - --मुखशोभाप्राप्तये चन्द्रो वने लताशाखावलम्बी कुष्ठसुमस्तबकच्छलेन

तपस्तनुते ।
 

 
प्रतिबिम्बगतं यथा - --मुखलक्ष्मीलब्धये चन्द्रो रत्नभूमिप्रतिबिम्बतया शैलशिरसि

तपस्तनुते ।
 

एवं सर्वभेदेषु त्रिविधत्वं बोध्यम् ॥
 

 
तपसा सत्पदावाप्तिः
 
A
 

 
जितस्य सदृशस्य तपसा वर्ण्यशोभाप्राप्तिः । यथा- -यत्कमले नाकण्ठजले जला-

हारेण तपस्तप्तं तेन नारीमुखसमानता लब्धा । यच्चन्द्रेण वने कुष्ठसुमस्तबकच्छलेन तप-

स्तप्तं तेन स्त्रीमुखलक्ष्मीर्लब्धा । यद् भृङ्गश्रेणिभिर्विष्णुपदाम्बुजे कान्तिधोरणीमिषेण

सेवा कृता तेन नारीकटाक्षच्छटोपमा प्राप्ता ॥
 

 
दुखादिस्तदनाप्तिकः ॥ १४९ ॥
 

 
तपसाऽपि वर्ण्यलक्ष्म्या अप्राप्तौ जितं वस्तु दुःखचेष्टितानि कुरुते । यथा - --मुख
-
जितं कमलं जलवासादिभिरपि मुखलक्ष्मीमीं न प्राप ततो भ्रमरावैराक्रन्दं कुरुते ।

वेणीजिता भृङ्गश्रेणी ने मकरन्दास्वादमात्राशनाऽपि वेणीसाम्यं न प्राप ततः साक्रन्दा

भ्रमति ॥
 

 
तेनापि न हि तत्प्राप्तिः
 

 
तपसाऽपि वर्ण्यशोभां जितं वस्तु न लभते । यथा--कमलं जले आकण्ठमर्झ
ग्नं
तपस्तेपे परं नारीवक्त्रोपमां न प्राप । हंसः सरस्वतीपदसेवां चक्रे परं नारीगत्यु-

पमां न प्राप ॥
 

 
महत्प्राप्तिर्न तस्य तु ।
 

 
तपसा महतोऽन्यस्य श्रेयसः प्राप्तिर्भवति न पुनर्वर्ण्यशोभाप्राप्तिः । यथा- -कमलं

जलवासादिभिः श्रीपदं राजहंससेव्यं जातं, न पुनः स्त्रीमुखोपमां लेभे । चन्द्रेण

ज्योत्स्नादा मैनैश्चकोप्रीणनासुकृतैः शिवशिरसि पदं लब्धं न पुनः स्त्रीमुखोपमानम् ॥