2023-04-12 04:24:55 by ambuda-bot
This page has not been fully proofread.
स्तबक: ५ ]
काव्यकल्पलतावृत्तिः ।
१३३
कमलं स्पर्धोद्भवपापै राजप्रसादविकलं सकण्टकं च जातम् । यशःस्पर्धी चन्द्रः सकलङ्कः
क्षयी च जातः ।
सकृतेऽपि सदोषता । वर्ण्यवस्तुनः स्पर्धापातकेन सदृशं वस्तु कृतं कुर्वाणमपि
सदूषणं स्यात् । यथा— मुखस्पर्धा कुर्वन् चन्द्रो महेश्वरं सेवमानोऽपि सकलङ्कोऽभूत् ।
मुखस्पर्धोद्भवैः पापैः कमलं हंसद्विजानू शरीरखण्डैरपि प्रीतान् कुर्वाणं सकण्टकं भवति ॥
अथ तपसार्थोत्पत्तिभेदाः-
स्यात्तपः स्वगतं छद्मगतं च प्रतिबिम्बगम् ॥ १४८ ॥
तपोविधिस्त्रिधा आत्मनैव स्वयं कृतं, सहशवस्तुच्छद्मना वा कृतं, जलादिषु
प्रतिबिम्बतया वा कृतम् । त्रिविधमध्यग्रे उदाहरिष्यते ।
वर्यादिभिस्तपो वर्ण्यजितस्यैतत्कलाप्तये ।
वर्ण्यजितस्य वस्तुनो वण्यंशोभाप्राप्तये वण्यंजयाय वा वनादिभिस्तपः कल्पनी-
यम् । स्वगतं यथा – मुखजित कमलं तच्छोभाप्राप्तये जलवासादि तपः कुरुते ।
-
छद्मगतं यथा - मुखशोभाप्राप्तये चन्द्रो वने लताशाखावलम्बी कुष्ठमस्तबकच्छलेन
तपस्तनुते ।
प्रतिबिम्बगतं यथा - मुखलक्ष्मीलब्धये चन्द्रो रतभूमिप्रतिबिम्बतया शैलशिरसि
तपस्तनुते ।
एवं सर्वभेदेषु त्रिविधत्वं बोध्यम् ॥
तपसा सत्पदावाप्तिः
A
जितस्य सदृशस्य तपसा वर्ण्यशोभाप्राप्तिः । यथा- यत्कमले नाकण्ठजले जला-
हारेण तपस्ततं तेन नारीमुखसमानता लब्धा । यच्चन्द्रेण वने कुष्ठमस्तबकच्छलेन तप-
स्तप्तं तेन स्त्रीमुखलक्ष्मीर्लब्धा । यद् भृङ्गश्रेणिभिर्विष्णुपदाम्बुजे कान्तिधोरणीमिषेण
सेवा कृता तेन नारीकटाक्षच्छटोपमा प्राप्ता ॥
दुखादिस्तदनाप्तिकः ॥ १४९ ॥
तपसाऽपि वर्ण्यलक्ष्म्या अप्राप्तौ जितं वस्तु दुःखचेष्टितानि कुरुते । यथा - मुख
जितं कमलं जलवासादिभिरपि मुखलक्ष्मी न प्राप ततो भ्रमरावैराक्रन्दं कुरुते ।
वेणीजिता भृङ्गश्रेणी चने मकरन्दास्वादमात्राशनाऽपि वेणीसाम्यं न प्राप ततः साक्रन्दा
भ्रमति ॥
तेनापि न हि तत्प्राप्तिः
तपसाऽपि वर्ण्यशोभां जितं वस्तु न लभते । यथा--कमलं जले आकण्ठमर्झ
तपस्तेपे परं नारीवक्त्रोपमां न प्राप । हंसः सरस्वतीपदसेवां चक्रे परं नारीगत्यु-
पमां न प्राप ॥
महत्प्राप्तिर्न तस्य तु ।
तपसा महतोऽन्यस्य श्रेयसः प्राप्तिर्भवति न पुनर्वर्ण्यशोभाप्राप्तिः । यथा- कमलं
जलवासादिभिः श्रीपदं राजहंससेव्यं जातं, न पुनः स्त्रीमुखोपमां लेभे । चन्द्रेण
ज्योत्स्नादा मैश्चको र प्रीणनाकृतैः शिवशिरसि पदं लब्धं न पुनः स्त्रीमुखोपमानम् ॥