This page has not been fully proofread.

१३२
 
अमरचन्द्रयतिकृता-
[ प्रतानः ४-
थं शिरःप्रहारादिभिः कष्टमनुभूतं यत् जनबुभुक्षातृष्णाहारान्नजलाधारतया लोकोपकारः
कृतस्तैः सुकृतैर्मृन्मयवस्तुनो भव्याधारादिकमारोष्यम् ।
 
-
 
धातुमये वस्तुन्येते भावा भावनीयाः । यत्पूर्व वन्हिप्रवेशहस्तपुटघातसन्दंशग्रहण-
यन्त्रान्तराकर्षणताडनच्छेदनधनप्रहारटङ्किकाघातादि कष्टमनुभूतं, यत् देवादिमण्डन तया
कान्ता भूषणतया लोकाप्यायक भोजनोदका द्याधारतया देवदेव्यादियन्त्राधारतया लोको-
पकारः कृतस्तैः सुकृतैर्धातुमयादिवस्तुनः शुभस्थानादि सम्भाव्यम् ।
 
पाषाणमये वस्तुन्येते भावा भाव्याः । यत्पूर्व टङ्क विदारणघनप्रहारटडिकाघातादि
कष्टमनुभूतं, यद्धर्मस्थाने देवतादिहेतुतया परोपकारः कृतस्तैः सुकृतैः पाषाणमय.
वस्तुनः शुभस्थानादि सम्भाव्यम् ।
 
चर्ममये वस्तुन्येते भावा आरोग्या: । यत्पूर्व कर्तिकाच्छेदनक्षारक्षेपविक्रयचर्म-
कारपादपातरम्पिकाच्छेदसूचिकावेधदवरकबन्धव्यङ्गप्रहारादि कष्टमनुभूतं यत्पादत्राण-
तया, ब्राह्मणाद्यपयोगिकरपत्रिकादिकतया, पुस्तकाद्यावरणतया इत्यादिभिः परोपकारः
कृतस्तैः सुकृतैश्चर्ममयवस्तुनः शुभस्थानाद्यूह्यम् ।
 
कार्पाससूत्रमये वस्तुन्येते भावा भाव्याः । यत्पूर्व शीतवाताद्ययाचिताम्बुपान-
कर्म करनखच्छेदविक्रयापवरकान्तरक्षेपलो होपलघर्पणतुलारोहणान्तः साराकर्षणपिअघातन-
विदारणयन्त्रारोहतकुंभ्रम्याकर्षणतन्तुवायकराकर्षणकाष्ठप्रहारविपणिक्रियादि
 
कष्टमनु-
W
 
भूतं तूलेन, तूलिकादिरूपतया वस्त्रेण परगुह्याच्छादनदेवतादिपरिधानादितया लोक-
शांतातपादित्राणादितया परोपकारः कृतस्तैः ऋकृतैः कार्पाससूत्रमयवस्तुनो भव्यस्थानादि
 
:
 
सम्भाव्यम् ।
 
एवं सर्ववस्तूनां पूर्वकृतं कष्टं सुकृतं वाऽऽरोप्य भव्यस्थानाश्रयादिभिरर्थः समर्थनीयः ॥
जितस्य सेवा स्वगता बुझगा प्रतिबिम्बगा ॥ १४७ ॥
 
जितस्य द्वौ प्रकारौ भवतः - विदेशगमनं, जेतुः सेवाकारणं वा । विदेशगमनं
वनादिषु प्रपञ्चितम् । सेवा तु त्रिविधा । स्वगता यथा - भारत्या गतिजितो हंसः
पदसेवां चकार । पार्वतीमध्यजितः सिंहः सेवां कुरुते ।
 
छद्मगा यथा - कामिन्या वक्त्रजितः सर्पो वेणोमिषादनुचरीभूतः । मुखजितश्चन्द्र
चन्दनेवृत्ततिलकच्छमना सेवते ।
 
प्रतिबिम्बगता यथा - मुखजितश्चन्द्रः कपोलप्रतिबिम्बतयाऽनुप्रवेशं चक्रे । जल.
माधुर्यैर्जितश्चन्द्रः प्रतिबिम्बतया सरः सेवते स्म । इत्याधूयम् ।
 
सेवासुकृततः श्रेयोन्तरप्राप्तिद्विषजयः ।
 
;
 
यथा- गतिजितो हंसो यद्भारतीपदसेवां चक्रे तेन सुकृतेन तजातिरपि मधुर-
शब्दाऽऽसीत् । मध्यजितः सिंहो यत्पार्वतीपदसेवां चक्रे तेन मुकृतेन स्वजाविराज्य-
मन्यैरनाक्रमणीयत्वं च लेभे । जितया कमलश्रिया कामिनीमुखाश्रयणेन निजरिपुश्चन्द्रो.
ऽपि जीयते स्म । मुखजितचन्द्रेण स्फटिकादर्शच्छझना कामिनीमाश्रित्य स्वोदयेऽपि
-सदा विकासि सश्रीकं करच्छद्मकमलमधः क्रियते, मुकुलीक्रियते च ।
 
वर्ण्यवस्तुनः स्पर्धापापेन सदृशं वस्तु सदूषणं कल्व्यम् । यथा--मुखस्पधि