This page has been fully proofread once and needs a second look.

अथाधारपरिवारादिभ्योऽर्थोत्पत्तिर्यथा--
 
वनगिरिजलभास्वद्वातशीताग्निलोह-
प्रहरणपरघट्टाभ्येतजन्तुप्रकारैः ।
सरिदधिगममौनध्याननैश्चल्यमन्त्रा-
नशनमखिलभागायाचितक्षान्तितप्तैः ॥ १४५ ॥
 
वर्ण्यवस्तुना निर्जितस्य सदृशस्य वस्तुनो वनादिभिरमाभिर्भावैरर्थः समर्थनीयः ।
यथा--स्त्रीनेत्रजिता मृगा वनं गताः । मध्यजितः सिंहो गिरिगह्वरे प्रविष्टः । मुखजितं
कमलं जलदुर्गमगात् । स्थैर्यजिता गिरयो भास्वत्तापवातशीताग्निसुखदुःखानि सहन्ते ।
भ्रमरः संघट्टं तितिक्षते । अभ्येतहंसादीनां शरीरखण्डैरप्युपकारं कुरुते । गति-
जिता हंसाः शरदधिगमं कुर्वते । दम्भजितो बकः सरित्तटे मौनो ध्यानं कुरुते ।
तुङ्गत्वजितो मेरुलोकोऽदृश्ये स्थाने निश्चलीबभूव । मुखजितं कमलं भ्रमरावैर्मन्त्रान्
जपति । नखजितानि रत्नानि गिरौ निराहाराणि तस्थुः । अधरजितानि प्रवालानि
जलमध्ये जलाहारतया वर्तन्ते । अङ्गसौकुमार्यजितं शिरीषकुसुमं वनेऽयाचितवृत्तिं
कुरुते । मुखजितं कमलं भ्रमराङ्घ्रिघातैरषि क्षमां कुरुते । उदाहरणानि । वर्ण्येन
जितपदार्थस्येत्यादिभिरुपायैरर्थः समर्थनीयः ॥
 
लज्जाकोपतपोनाशसेवाक्रन्दास्यकृष्णताः ।
रागात्पाण्डुरता शस्त्रीविषझम्पादियोजने ॥ १४६ ॥
 
वर्ण्यजितस्य वस्तुनः पराभवोद्भवा एते लज्जादयो भावा यथौचित्यं योजनीयाः ।
यथा--मुखजितं पद्मं लज्जयेव वनं गतम् । कोपतप्तमिव लज्जाशयं ययौ । नद्यामाकण्ठ-
मनं जलाहारतया तपस्तनुते । अथवा जलदुर्गनष्टं शम्भारम्भोमूर्तेर्वा सेवां करोति ।
भ्रमरावैराक्रन्दं कुरुते । नीलालिभिः कोकनदमनुरक्ततां धत्ते । नेत्रजितं कैरवं दुःखात्
पाण्डुरतां गतम् । भृङ्गश्रेणामिषादुदरे शस्त्रीं क्षिपति । जलान्तर्झम्पां ददौ । भृङ्ग-
मिषाद्वा विषं भक्षयति । एवं यो रक्तपदार्थः स सदृशेन जितः कोपादिव रक्तोऽप्य-
थवा कयाचिद्युक्त्या सानुरागो भणनायः । यः श्वेतः श्यामश्च सदृशजितो दुःखादिवो-
त्पाण्डुरः कृष्णश्च समर्थनीयः ॥
 
वृक्षाङ्गादिजवस्तूनां वनाद्यैः सत्पदादिकम् ।
 
किञ्चिद्वस्तु वृक्षाङ्गादिमयं किञ्चिन्मृन्मयं किञ्चिद्वातुमयं किञ्चित्पाषाणमयं किञ्चि-
च्चर्ममयं किञ्चित्कार्पासमयमित्यादिवस्तूनां वनवासादितपोभिः शुभस्थानाश्रयशुभा-
कारशुभक्रियाशुभपरिवारादीनां प्राप्तिः सम्भाव्या ।
 
यद् वृक्षाङ्गादिमयं वस्तु तस्यैते भावा विभाव्याः । यत्पूर्वं वृक्षभवे रवितापशीत-
वातादिकष्टमयाचितव्रतादिभिस्तपस्तप्तं तन्मूलत्वक्पत्रपुष्पफलच्छायादिभिः सूर्यातप-
तप्तानां रोगार्तानां भोगार्थिनां मङ्गलार्थिनां मर्त्यानां भृङ्गाणां पक्षिणां चतुष्पदानामुप-
कृतं तेन वृक्षाङ्गमयवस्तुनः शुभस्थानादिप्राप्तिः ।
 
मृन्मये वस्तुन्येते भावाः समारोप्याः । यत्पूर्वं कुद्दालघातपादप्रहारयन्त्रबन्ध-
प्रवेशचक्राराहणचक्रभ्रमणपाषाणपिण्डिकाकाष्ठहस्तकरघातरवितापशोषवह्निप्रवेशपरीक्षा-