This page has been fully proofread once and needs a second look.

१३०
 
अमरचन्द्रयतिकृता-
[ प्रतानः ४-
वर्ष्
वर्ण्या वेणी तस्यां तुल्यत्वादारोपितः सर्पस्तस्य नार्या अनुसरणं क्रिया ततस्त-

द्वचनस्य सुधया सह मैत्रीमिव कारयितुं सुधाध्यक्षः सर्पो वेणीमिषेण नार्या अनुचरत्वं

करोति । अथवा तस्याः कटाक्षवक्रत्वमिव शिक्षयितुं वेणीमिषेण सर्पो नार्या अनुचर
 
-
त्वं गतः ।
 

 
वर्ण्या दशनद्युतिस्तस्यामारोपिता सुधा तस्या रामाश्रयणं क्रिया ततो वचन-

माधुर्यमिव शिक्षितुं दशनद्युतिमिषेणाश्रयणं करोति ।
 

 
रिपूच्छित्तिर्यथा--वर्ण्य ऐरावणस्तनात्रारोपितं यशस्तस्य स्वर्गगङ्गाश्रयणं क्रिया

तस्या रिपूच्छित्तिः कारणं ततः स्वस्पर्धिनीं स्वर्गङ्गामिव गाहितुमैरावणच्छलेन नृपयशः

स्वर्गङ्गां गतम् ।
 
चय

 
वर्ण्यौ
कुचौ तयोरारोपितौ चक्रौ तयोः कान्तश्रयणं क्रिया तस्याः कारणं रिपू.
-
च्छित्तिः ततो निजवैरिणश्चन्द्रस्य तन्मुखपाश्वर्श्वात् पराभवं कारयितुं कुचच्छलेत चक्रौ

नारीमाश्रितोतौ
 

 
अध स्पर्धा - -वर्ण्या हारमुक्तास्तास्वारोपितास्तारास्तासां नारीसमाश्रयणं क्रिया

तस्याः कारणं स्पर्धा ततोऽस्मत्सहोदयेन तमसा वेणीमिषादियमाश्रितेति स्पर्धेयेव

हारमुक्ताच्छलेन ताराभिः स्त्री समाश्रिता ।
 

 
र्ण्या शिवशिरःसरित् तस्यामारोपिता कीर्तिस्तस्याः शिवाश्रयणं क्रिया तम्स्याः

स्पर्धा ततः कण्ठरुचिच्छलेनः भवद्रिपुकीर्तिः शिवमाश्रितेति स्पर्धयेव तव कीर्तिरपि

शिरोगङ्गाच्छलेन शिवं श्रिता ।
 
-
 

 
अथ पूर्वजक्रमो यथा - वय-वर्ण्यो वैरिस्त्रीविरहानलस्तत्रारोपितो नृपप्रतापस्तस्य वैरि-

स्त्रीहृदय प्रवेशः क्रिया तस्याः कारणं पूर्वजक्रमस्ततोऽम्स्मत्पूर्वजः कृपाणो वैरिहृदयेषु प्रविष्ट

इति कृपाणोद्भवो नृपप्रतापोऽपि विरहानच्छलेन वैरिस्त्रोरीहृदयेषु प्रविष्टः ।
 

 
वर्ण्यो वैरिस्त्रीम्स्तनपाण्डिमा तत्रागेरोपितं नृपयशस्तस्य क्रिया वैरिस्त्रीकुचाश्रयणं

तस्याः कारणं पूर्वजक्रमस्ततो मत्पूर्वजक्रमस्नतो मत्पूर्वजः । कृपाणो रिपुकुम्भिकुम्भेषु

विललासेति कृपाणोद्भवं नृपयशोऽपि रिपुकुम्भिकुम्भसोदेदरेषु वैरिस्त्रीकुचेषु पाण्डिम-

च्छलेन विललास ॥
 

 
गेष्य वरारोप्य वर्ण्यवस्तूनां कियासु सदृशीः क्रियाः ।
 

तासां रोपितक्रियाणां कल्प्यमुत्पत्तिकारणम् ॥ १४४ ॥
 

 
वर्ण्य वस्तूनां क्रियासु कम्पनादिषु नर्तनादिकाः, भ्रमग्कूजनादिषु जपनस्तवना-

क्रन्दाशीर्वचनादिकाः क्रिया आरोपयेत् । ततस्तासामारोपितक्रियाणां नर्तनादीनां

हर्षादीनि, जपनादीनां श्रेयः प्राप्त्यादीनि कारणानि कल्पनीयानि ॥
 

 
इति श्रीजिन० अर्थसिद्धिप्रताने चतुर्थे क्रियास्तबकश्चतुर्थः ॥
 
.