This page has not been fully proofread.

१३०
 
अमरचन्द्रयतिकृता-
[ प्रतानः ४-
वर्ष्या वेणी तस्यां तुल्यत्वादारोपितः सर्पस्तस्य नार्या अनुसरणं क्रिया ततस्त-
द्वचनस्य सुधया सह मैत्रीमिव कारयितुं सुधाध्यक्षः सर्पो वेणीमिषेण नार्या अनुचरत्वं
करोति । अथवा तस्याः कटाक्षवक्रत्वमिव शिक्षयितुं वेणीमिषेण सर्पो नार्या अनुचर
 
त्वं गतः ।
 
वर्ण्या दशनयुतिस्तस्यामारोपिता सुधा तस्या रामाश्रयणं क्रिया ततो वचन-
माधुर्यमिव शिक्षितुं दशनद्युतिमिषेणाश्रयणं करोति ।
 
रिपूच्छित्तिर्यथा-वर्ण्य ऐरावणस्तनारोपितं यशस्तस्य स्वर्गगङ्गाश्रयणं क्रिया
तस्या रिपूच्छित्तिः कारणं ततः स्वस्पर्धिनीं स्वर्गङ्गामिव गाहितुमैरावणच्छलेन नृपयशः
स्वर्गङ्गां गतम् ।
 
चय कुचौ तयोरारोपितौ चक्रौ तयोः कान्तश्रयणं क्रिया तस्याः कारणं रिपू.
च्छित्तिः ततो निजवैरिणश्चन्द्रस्य तन्मुखपाश्वत् पराभवं कारयितुं कुचच्छलेत चक्रौ
नारीमाश्रितो ।
 
अध स्पर्धा - वर्ण्या हारमुक्तास्तास्वारोपितास्तारास्तासां नारीसमाश्रयणं क्रिया
तस्याः कारण स्पर्धा ततोऽस्मत्सहोदयेन तमसा वेणीमिषादियमाश्रितेति स्पर्धेयेव
हारमुक्ताच्छलेन ताराभिः स्त्री समाश्रिता ।
 
चर्ण्या शिवशिरःसरित् तस्यामारोपिता कीर्तिस्तस्याः शिवाश्रयणं क्रिया तम्याः
स्पर्धा ततः कण्ठरुचिच्छलेनः भवद्रिपुकीर्तिः शिवमाश्रितेति स्पर्धयेव तव कीर्तिरपि
शिरोगङ्गाच्छलेन शिवं श्रिता ।
 
-
 
अथ पूर्वजक्रमो यथा - वय वैरिस्त्रीविरहानलस्तत्रारोपितो नृपप्रतापस्तस्य वैरि-
स्त्रीहृदय प्रवेशः क्रिया तस्याः कारण पूर्वजक्रमस्ततोऽम्मत्पूर्वजः कृपाणो वैरिहृदयेषु प्रविष्ट
इति कृपाणोद्भवो नृपप्रतापोऽपि विरहानच्छलेन वैरिस्त्रोहृदयेषु प्रविष्टः ।
 
वर्ण्यो वैरिस्त्रीम्तनपाण्डिमा तत्रागेपितं नृपयशस्तस्य क्रिया वैरिस्त्रीकुचाश्रयणं
तस्याः कारणं पूर्वजक्रमस्ततो मत्पूर्वजक्रमस्नतो मत्पूर्वजः । कृपाणो रिपुकुम्भिकुम्भेषु
विललासेति कृपाणोद्भवं नृपयशोऽपि रिपुकुम्भिकुम्भसोदेषु वैरिस्त्रीकुचेषु पाण्डिम-
च्छलेन विललास ॥
 
आगेष्य वरावस्तूनां कियासु सदृशीः क्रियाः ।
 
तासां रोपितक्रियाणां कल्प्यमुत्पत्तिकारणम् ॥ १४४ ॥
 
वर्ण्य वस्तूनां क्रियास कम्पनादिषु नर्तनादिकाः, भ्रमग्कूजनादिषु जपनस्तवना-
क्रन्दाशीर्वचनादिकाः क्रिया आरोपयेत् । ततस्तासामारोपितक्रियाणां नर्तनादीनां
हर्षादीनि, जपनादीनां श्रेयः प्राप्त्यादीनि कारणानि कल्पनीयानि ॥
 
इति श्रीजिन० अर्थसिद्धिप्रताने चतुर्थे क्रियास्तबकश्चतुर्थः ॥
 
.