This page has been fully proofread once and needs a second look.

प्राप्तिस्ततः कमलं कामिनीमुखौपम्य प्राप्त्यै जलान्तराकण्ठमग्नं तपः कुरुते ।
 
वर्ण्यश्चन्द्रस्तस्य शिवशिरःसुरसरित्तीरे निवासः क्रिया तस्याः कारणं कामिनीमुखौ-
पम्येष्टप्राप्तिस्ततः सुमुखोमुखौपम्यप्राप्त्यै स्थाणोः शिरसि स्थायी सुरसरित्तीरे तपस्वी
तपःक्षामो निवसति चन्द्रः ।
 
वर्ण्यं यशस्तस्य स्वर्गगमनं क्रिया तस्याः कारणं निजमित्रैरावतादिमिलनेष्टप्राप्ति-
स्ततो निजमित्रैरावतोच्चैःश्रवोब्रह्महंसशिवशिरोगङ्गाविष्णुपाञ्चजन्यादीनां मिलनायेव
नृपयशः स्वर्गं जगाम ।
 
रिपूच्छित्तिर्यथा—वर्ण्यो वप्रस्तस्य नभोगमनं क्रिया तस्याः कारणं स्वस्पर्धिमेरु-
नगाश्रितरविरिपूच्छित्तिस्ततः स्वस्पर्धिमेरोराश्रयणशीलं रविमिव भूमौ पातयितुं वप्रो
नभोगमनं करोति ।
 
वर्ण्या हंसास्तेषां सरःश्रयणं क्रिया ततो निजगतिस्पर्धिनारीवदनमित्राणि कमलानीव
छेत्तुं सरः श्रयन्ति हंसाः ।
 
वर्ण्यो रविस्तस्योदयः क्रिया ततो निजसारथिभ्रातृगरुडरिपुसर्पसोदराणीव तमांसि
छेत्तुं रविरुदयं करोति ।
 
अथ स्पर्धा--वर्ण्यो वप्रस्तस्य नभोगमनं क्रिया तस्याः कारणं स्पर्धा ततो
विन्ध्यगिरिस्पर्धया तरणिसरणिरोधं कर्तुमना इव वप्रो व्याप्नोति ।
 
वर्ण्यं यशस्तस्य दिग्व्यापनं क्रिया तस्याः कारणं स्पर्धा ततो निजप्रभावस्पर्धि-
सुधादीधितिस्पर्धयेव नृपयशो दिक्चक्रमाक्रामति ।
 
अथ पूर्वजक्रमः--वर्ण्यो वप्रस्तस्य पूर्वजो गिरिस्ततो निजपूर्वजगिरिक्रमेणैव वप्रो-
ऽपि नभो रुरोध ।
 
वर्ण्या नारीमुखपत्रवल्लीकस्तूरिका तस्याः पूर्वजो मृगस्ततोऽस्मत्पूर्वजमृगश्चन्द्रं
श्रित इति पूर्वजक्रमान्मृगनाभिरपि चन्द्रसोदरं सुमुखीमुखं श्रिता ।
एवं वस्तुषु क्रियामारोप्येष्ट प्राप्त्यादिकारणानि योजनीयानि ॥
 
क्रियाभ्योऽर्थान्तरोत्पत्तये प्रकारान्तरमाह--
 
वर्ण्योऽपह्नुतिवाचकशब्दैरारोपितेषु तुल्येषु ।
रचितोचितक्रियाणामिष्टप्राप्त्यादि कारणं कल्प्यम् ॥ १४३ ॥
 
वर्ण्यवस्तुष्वपह्नुतिवाचकः शब्दै रूपकोत्प्रेक्षाभ्यां वर्ण्याकारक्रियादिभिः सदृशानि
वस्तूनि यथौचित्यं क्रियाः कल्पयेत् । ततः प्रकल्पितक्रियायामिष्टप्राप्त्यादीनि कार-
णानि योजयेत् । यथा--वर्ण्या नारीनखास्तेषु तुल्यत्वादारोपितास्तारास्तासां पाद-
लगनं क्रिया तस्याः कारणं नारीप्रसादनेष्टप्राप्तिः, ततस्तव मुखस्पर्धापातकेनाऽस्मत्पतिः
कलङ्कितः क्षयी नाद्यप्रभृति स्पर्धत इति नार्याः प्रसादनं कर्तुमिव नखमिषेण चन्द्रद्वारा
स्ताराः पादयोर्लग्नाः ।
 
वर्ण्यश्चन्द्रस्तत्तुल्यत्वादारोपितं यशस्तस्य त्रिभुवने भ्रमणं क्रिया तस्याः स्वसमान-
निरीक्षणं कारणं ततो मत्समानः कोऽप्यस्ति न वेति निरीक्षितुमिव पीयूषद्युतिच्छलेन
नृपयशो भुवनत्रयं भ्रमति ।
 
१७ का० क०