This page has been fully proofread once and needs a second look.

स्तबकः ४ ]
 
काव्यकल्पळतावृत्तिः ।
 
प्राप्तिस्ततः कमलं कामिनीमुखौपम्य प्राप्त्यै जलान्तराकण्ठमग्नं तपः कुरुते ।

 
वर्ण्यश्चन्द्रस्तस्य शिवशिरःसुरसरित्तीरे निवासः क्रिया तस्याः कारणं कामिनीमुखौ
-
पम्येष्टप्राप्तिस्ततः सुमुखोमुखौपम्यप्राप्त्यै स्थाणोः शिरसि स्थायी सुरसरित्तीरे तपस्वी

तपःक्षामो निवसति चन्द्रः ।
 

 
वर्ण्यं यशस्तस्य स्वर्गगमनं किक्रिया तस्याः कारणं निजमिन्त्रैरावतादिमिलनेष्टप्राप्ति-

स्ततो निजमिनैत्रैरावतोच्चैःश्रवो
ब्रह्म हंसशिव शिरोगङ्गा विष्णुपाञ्चजन्यादीनां मिलनायेव

नृपयश: स्वर्गशः स्वर्गं जगाम ।
 
१२९
 
रिपु

 
रिपू
च्छित्तिर्यथा-वयव —वर्ण्यो वप्रस्तस्य नभोगमनं क्रिया तस्याः कारणं स्वस्पर्धिमेरु-

नगाश्रितर विरिपूच्छित्तिस्ततः स्वस्पर्धिमेरोराश्रयणशीलं रविमिव भूमौ पातयितुं वप्रो

नभोगमनं करोति 1
 
वर्ष्

 
वर्ण्
या हंसास्तेषां सरःश्रयणं क्रिया ततो निजगतिस्पर्धिनारीवदनमित्राणि कमलानीव

छेत्तुं सरः श्रयन्ति हंसाः ।
 
वर्थ्

 
वर्ण्
यो रविस्तस्योदयः क्रिया ततो निजसारथिभ्रातृगरुडरिपुसर्प सोदराणीव तमांसि

छेत्तुं रविरुदयं करोति ।
 

 
अथ स्पर्धा
- वय-वर्ण्यो वप्रस्तस्य नभोगमनं क्रिया तस्याः कारणं स्पर्धा ततो

विन्ध्यगिरिस्पर्धया तरणिसरणिरोधं कर्तुमना इव वप्रो व्याप्नोति ।
 

 
वर्
ण्यं यशस्तस्य दिग्व्यापनं क्रिया तस्याः कारणं स्पर्धा ततो निजप्रभावस्पर्धि-

सुधादीधितिस्पर्धयेव नृपयशो दिक्चक्रमाक्रामति ।
 

 
अथ पूर्वजक्रमः- वय-वर्ण्यो वप्रस्तस्य पूर्वजो गिरिस्ततो निजपूर्वजगिरिक्रमेणैव वप्रो

ऽपि नभो रुरोध ।
 

 
वर्ण्या नारीमुखपत्रवल्लीकस्तूरिका तस्याः पूर्वजो मृगस्ततोऽस्मत्पूर्वजमृगश्चन्द्रं

श्रित इति पूर्वजक्रमान्मृगनाभिरपि चन्द्रसोदरं सुमुखीमुखं श्रिता ।

एवं वस्तुषु क्रियामारोप्येष्ट प्राप्त्यादिकारणानि योजनीयानि ॥

 
क्रियाभ्योऽर्थान्तरोत्पत्तये प्रकारान्तरमाह-
-
 
वर्थो

 
वर्ण्यो
ऽपन्हुह्नुतिवाचकशब्दैरारोपितेषु तुल्येषु ।
 

रचितोचितक्रियाणामिष्ट प्राप्त्यादि कारणं कल्प्यम् ॥ १४३ ॥

 
वर्ण्य वस्तुष्वपह्नुतिवाचकः शब्दै रूपकोत्प्रेक्षाभ्यां वर्ण्याकारक्रियादिभिः सदृशानि

वस्तूनि यथौचित्यं क्रियाः कल्पयेत् । ततः प्रकल्पितक्रियायामिष्टप्राप्त्यादीनि कार-
जां

णा
नि योजयेत् । यथा - -वर्ण्या नारीनखास्तेषु तुल्यत्वादारोपितास्तारास्तासां पाद-

लगनं क्रिया तस्याः कारणं नारीप्रसाद नेष्टप्राप्तिः, ततस्तव मुखस्पर्धापातकेनाऽस्मत्पतिः

कलङ्कितः क्षयी नाद्यप्रभृति स्पर्धेत इति नार्याः प्रसादनं कर्तुमिव नखमिषेण चन्द्रद्वारा

स्ताराः पादयोर्लग्नाः ।
 
-
 

 
वर्ण्यश्चन्द्रस्तत्तुल्यत्वादारोपितं यशस्तस्य त्रिभुवने भ्रमणं क्रिया तस्याः स्वसमान-

निरीक्षणं कारणं ततो मत्समानः कोऽप्यस्ति न वेति निरीक्षितुमिव पीयूषचुद्युतिच्छलेन

नृपयशो भुवनत्रयं भ्रमति ।
 

 
१७ का० क०