This page has not been fully proofread.

अमरचन्द्रयतिकृता-
[ प्रतानः ४-
कुञ्चिमित्राङ्गुलीतल्पदात्र कन्दुकदण्डका ।
तडागपालिकुद्दालतोरणानि सुखासनम् ॥ १३७ ॥
गोपानसी रथो वंशाः शाकच्छदकखेटके ।
चन्दनमालाबालेन्दुकिंशुकेभाङ्गुलीरदाः ॥ १३८ ॥
श्वपुच्छाऽश्वमुखे शृङ्गचञ्चूवृश्चिककण्टकाः ।
करिदंष्ट्रा मयुग्रीवा सिंहकुक्कुटयोर्नखाः ॥ १३९ ॥
केसरश्चन्द्रको लग्नकङ्कणं फणभृत्फणाः ।
पुरोधःकर कौपीने केकिकुक्कुटमञ्जरी ॥ १४० ॥
एवमन्येऽपीत्यादि । यथा-वर्ण्यो बालेन्दुस्तस्योपमानं दात्रं दात्रेण लवनक्रिया
क्रियते, ततो मानिनीमनोभूमिप्ररूढदृढमूलमानलतावितानलवनाय मनोभुवा प्रगुणीकृतं
लवित्रमिव बालशशी ।
 
१२८
 
वर्ण्याः किंशुकास्तेषामुपमानं कर्तर्यस्ता हि व्याधस्य भवन्ति, ततो मदन-
व्याधस्य प्रतिकामिनीजनमनोमृगवधादिव रुधिरार्द्राः कर्तर्य इव किंशुकाः ।
 
वर्या नखाड़ कास्तेषामुपमानं किंशुकानि, ततः कुठमास्त्रस्य कामिनीवक्षःस्पर्धि
चन्द्रबाणाकृतिकिंशुककुसुम श्रेणीव पतितानि नखक्षतानि ।
 
वर्ण्यो भ्रुवौ तयोरुपमानं मित्राङ्गुल्यौ, ततो बालायाः कामयौवनाभ्यां परस्पर-
मैत्रयाय वक्रीकृतौ मित्राङ्गुल्याविव भ्रुवौ ॥
 
उच्चभद्रासनं वप्रप्रासादाहालकालयाः ।
 
सतां मनोरथा हस्तिहस्तिशालशिलोच्चयाः ॥ १४१ ॥
एतेऽन्येऽपीत्यादि । यथा - वर्ण्यः प्रासादस्तस्योपमानं हिमाद्रिस्ततः प्रासादे
हिमाद्रौ गङ्गेव पताका ।
 
वर्ण्यं भद्रासनं तस्योपमानमुदयाद्रिस्ततो भद्रासनोदयाद्रौ राजा रविरिव ॥
इति श्रीजिन० अर्थसिद्धिप्रताने चतुर्थं आकारस्त यकस्तृतीयः ॥
 
अथ क्रियाभ्योऽर्थोत्पत्ति कथ्यते । यथा -
 
18
 
इष्टप्राप्त्यै रिपूच्छित्यै स्पर्धया पूर्वजकमात् ।
 
वर्ण्य वस्तुक्रियाभावैः कापि श्लेषकृतस्मितैः ॥ १४२ ॥
तावद्वर्ण्य वस्तुनोऽवश्यमेव क्कापि चलनावस्थानजल्पनादिक्रिया भवति, तत-
स्तस्याः क्रियाया इष्टप्राप्तिः, रिपूच्छित्तिः, स्पर्धा, पूर्वजक्रम - एतानि चत्वारि कारणानि
कापि इलेषकृते प्रकाशानि यथौचित्यं योजनीयानि ।
 
इष्टप्राप्तियथा-वर्ण्यो वप्रस्तस्योच्चैवर्धनं क्रिया तस्याः कारण नभोगङ्गास्ना-
नेन पापापनयनमिष्टं तत्प्राप्तिस्ततः परमातङ्गस्पर्शोद्भवं मालिन्यमपनेतुमिव वप्रो नभो-
गङ्गास्नानार्थंमुश्चैस्तरां वर्धते स्म -
 
वर्ण्य कमलं तस्य जलवासादि तपःक्रिया तस्याः कारणं कामिनीमुखौपम्येष्ट-
3