This page has been fully proofread once and needs a second look.

स्तबक: ३ ]
 
काव्यकल्पलतावृत्तिः ।
 
त्रिकोणान्यथ दम्भोलिशूलेशानदृशौ हलम् ।

सन्ध्यक्षराद्यशृङ्गाटौ कामाक्षीवन्हिह्निमण्डले ॥ १२७ ॥

 
करपत्रनिरङ्गाद्रितलश्रोणिस्थपाणयः ।

क्षुरप्रभृशृङ्गगोक्षुररोहिणीशकटानि च ॥ १२८ ॥

 
एतेऽन्येऽपीत्यादि । यथा - -वयं त्रिकोणतिलकं तस्योपमानं रोहिणी, ततो

नायिकामुखे त्रिकोणमुक्ता तिलकच्छलेन निजपतिभ्रमेण रोहिणीव समागता । अथवा रूम.
स्म-
भटेन शिवपराभवादनादृतपुष्पबाणेन बालाया भ्रुधनुः सज्जीकृत्य त्रिकोणतिलकच्छलेन

क्षुरप्रायुधमिव प्रगुणीकृतम् । अथवा निरन्तरं जनमनोवेधकारिशरपरम्पराक्षेपश्रमार्तेरप-

नयनायाऽन्तरान्तरा नीरपानमिव कर्तुतुं नायिका त्रिकोणमुक्ता तिलकच्छलात् मदनेन

कान्तिजलपूर्णं करपत्रमिव सीमन्तदण्डे लम्बितम् ॥
 
॥ १३० ॥
 

 
दीर्घाणि वेणीसीमन्तनासिकाबाहवोऽङ्गुलिः ।

रोमाली पृष्ठवंशोरुजङ्घाऽन्त्रनलिकाः शिराः ॥ १२९ ॥

 
मौवींर्वी धनुः शरमाप्रासकृपाणलकु टार्गलाः ।
श्रा

षाढमुशलाऽरित्रयष्टिमन्थानकध्वजाः
॥ १३० ॥
 
वंशधूपतुलापट्टतालद्रुस्तम्भमेधयः ।

स्तूपकूपयशस्तम्भेन्द्रध्वजार्हपुरोध्वजाः ॥ १३१ ॥

 
स्वर्दण्डच्छत्रदण्डोर्मि निर्मोकाऽध्वाऽहिनिम्नगाः ।

मृणालं हारशेषत्स्रग्जटावल्लीद्रुमेक्षवः ॥ १३२ ॥

 
कुशी प्राजनकं बाहुयुगवेत्रकशा षः ।

हस्तिहस्तरदौ पुच्छं नाडीशृङ्खलकोकीलकाः ॥ १३३ ॥

 
दामशैलुकशुलूकशूलानि करभो नकुलस्तथा ।
 
१२७
 

लुलूकैर्वा सकूष्माण्डमृदङ्गा वायुमण्डलम् ॥ १३४ ॥

 
वर्तनं लेखनी काष्टकरणं नखभेदनी ।
 

केतकीदलमञ्जर्यो नाराचार्केन्दुरश्मयः ॥ १३५ ॥
 

 
एतेऽन्येऽपीत्यादि । वर्ण्या चेवेणी तस्या उपमानं सर्पः सोऽपि सुधाकुण्डे भवति,
ततस्वि

ततस्त्रि
नेत्रानलदग्धकुसुमायुधसंजीवनवा क्सुधाकुण्डस्य वदनस्य रक्षाभुजङ्ग इव वेणी-

दण्डः । अथवा यौवनयज्वना युवतीहृदयकुण्डे सदा दीपितस्य मदनानलस्य निर्गता

धूमोर्मिरि वेणीवल्लरी ।
 

 
वर्ण्या रोमाली तस्या उपधानं मृणालं ततः शिवसमरदग्धनुषः स्मरस्य कृते

यौवनेन बालारोमावलीव्याजात् सज्जीकृतो मृणालधनुर्दण्डः ।
 
वर्ध्

 
वर्ण्
या कृपाणलेखा तस्या उपमानं यमुना ततस्त्वदभिहतरणसंमुखनृपतिनिकरैर्निर.
-
न्तरं विध्यमानो मम पिता रविर्विधुरत्वं गतः, ततः कियन्तमपि कालं विलम्बस्वेति

विज्ञापनायेव कृपाणच्छलाद् यमुना नृपहस्तं गता ॥
 

 
वक्त्राण्यलकभालभ्रूनखाङ्काऽङग्ङ्घ्रिललाटिकाः ।

कटाक्षेन्द्रधनुर्विद्युदर्धचन्द्रहलाङ्कुशाः ॥ १३६