This page has been fully proofread once and needs a second look.

१२६
 
अमरचन्द्रयतिकृता-
[ प्रतानः ४-
भुवः शिवमुमूर्तेः कपिशीर्ष मुण्डमालान्वितः कपर्द इव वप्रः ।
 
व व

 
वर्ण्यो वप्र
स्तस्योपमानं वलयं तस्याधारो राहुस्ततो वसुधावध्वा अन्तरोल्लसित
-
नृपसौधबाहुभासितं वलयमिव वप्रः ।
 
वय

 
वर्ण्यौ
कर्णपाशौ तयोरुपमानं व्याक्कुकृष्चापे ततो मदनयौवनाभ्यां जननयनमनोमृग-

वेधाय सन्निहितकटाक्षबाणे कर्णद्वयमिषेण धनुषी इव कुण्डलिते ॥
 

 
सूक्ष्मश्वेतानि वृत्तानि मुक्तामलकतारकाः ।

दाडिमीफलबीजानि दन्तबिन्दुवराटकाः ॥ १२३ ॥

 
करटाक्षिपयोबिन्दुबुद्बुदस्वेदविबिन्दवः ।
 

प्रसूनं पिटकं पीलुफलं जातीफलं कणाः ॥ १२४ ॥

 
एतेऽन्येऽपीत्यादि । यथा--वर्ण्यास्तारास्तासामुपमानं मुक्तास्ता हि समुद्रे

शुक्तितः सम्भवन्ति, ततो ज्योत्स्नाम्भः सम्भृतनभोऽम्भोधौ लाञ्छनच्छलस्फुटित

मुखचन्द्रशुक्तिकुहरनिःसृता मुक्ता इव ताराः । अथवा ताराणामुपमानं जलबिन्दवः

ते हि जलाशयादिषु सम्भवन्ति, ततोऽनवरतभ्रान्तिश्रान्तस्य खेःरवेः पश्चिमाचलशिख-

रात् प्रदत्तझम्पावशेन तोयनिवेरुच्छलिता नभसि जलबिन्दव इव ताराः ॥
 

 
सूक्ष्मरक्तानि वृत्तानि नखरत्नेभबिन्दवः ।

गुञ्जेन्द्र गोपखद्योताः स्फुलिङ्गकुक्रुद्धलोचने ।

पूगशोणाश्मबन्धूकबदरीवटयोः फले ॥ १२५ ॥

 
एतेऽन्येऽपीत्यादि । यथा - -वर्ण्या मणयस्तेषामुपमानं रत्नानि ततो जलधरैजलवेः
र्जलधेः
पीतस्फुलिङ्गा इव मणयः ।
 
वर्ष्

 
वर्ण्
या इन्द्रगोपास्तेषामुपमानं रत्नानि ततो जलधरर्जलधेः पीतसरलजलैर्जलै:
लैः
समं वृष्टै रस्त्नैरिव इन्द्रगोपैर्भुभूर्व्याप्ता ।
 

 
वर्ण्याः खद्योतास्तेषामुपमानं वन्हिह्निस्फुलिङ्गास्ततो घनघटासङ्घदृट्टशत खण्डितविधुद्यु-
-
ग्नेः खण्डलवा इव खद्योताः ।
 
वर्ष्

 
वर्ण्
यानि बन्धुजीवानि तेषामुपमानं शोणरत्नानि ततो वनलक्ष्म्याः शरत्कालेन

क्लृप्तानि माणिक्याभरणानीव बन्धुजीवकुसुमानि ॥
 

 
सूक्ष्मश्यामानि वृत्तानि जम्बूभृङ्गकनीनिकाः ।
 

चूचुका:काः साञ्जनाश्चेन्द्रनीलोलौ गुञ्जाऽतसीसुमे ॥ १२६ ॥

 
एतेऽन्येऽपीत्यादि । यथा--वर्ण्यानि जम्बूफलानि तेषामुपमानं साञ्जनाश्रुबिन्दवः,

ते दुःखात् स्त्रियो भवन्ति, ततः परवल्लीः स्पृशन्तं मारुतकामुकं दृष्ट्वा जम्वूलतया
बूलतया
साञ्जनाश्रूणीव मुक्तानि जम्बूफलानि ।
 
वर्ष्

 
वर्ण्
या भ्रमरी तस्या उपमानं कनीनिका सा हि नेत्रे भवति, ततो वसन्तनायकं

पश्यन्स्त्या माधवीलताया विस्मेरकुसुमनेत्रान्तर्भ्रमरी कनीनिकेव निश्चला ।
 
वर्थ्यो च

 
वर्ण्यौ चू
चुकौ तयोरुपमानं भृङ्गौ तावपि कमलाश्रयौ भवतः, ततो रतिप्रीति-

क्रीडाकमलयोः कुचयोः कृतास्पदौ भृङ्गावित्र चव चूचुकौ ॥