2023-04-12 04:24:53 by ambuda-bot
This page has not been fully proofread.
१२६
अमरचन्द्रयतिकृता-
[ प्रतानः ४-
भुवः शिवमुर्तेः कपिशीर्ष मुण्डमालान्वितः कपर्द इव वप्रः ।
व वस्तस्योपमानं वलयं तस्याधारो राहुस्ततो वसुधावध्वा अन्तरोल्लसित
नृपसौधबाहुभासितं वलयमिव वप्रः ।
वय कर्णपाशौ तयोरुपमानं व्याक्कुष्ठचापे ततो मदनयौवनाभ्यां जननयनमनोमृग-
वेधाय सन्निहितकटाक्षबाणे कर्णद्वयमिषेण धनुषी इव कुण्डलिते ॥
सूक्ष्मश्वेतानि वृत्तानि मुक्तामलकतारकाः ।
दाडिमीफलबीजानि दन्तबिन्दुवराटकाः ॥ १२३ ॥
करटाक्षिपयोबिन्दुबुद्बुदस्वेदविन्दवः ।
प्रसूनं पिटकं पीलुफलं जातीफलं करणाः ॥ १२४ ॥
एतेऽन्येऽपीत्यादि । यथा-वर्ण्यास्तारास्तासामुपमानं मुक्तास्ता हि समुद्रे
शुक्तितः सम्भवन्ति, ततो ज्योत्स्नाम्भः सम्भृतनभोऽम्भोधौ लाञ्छनच्छलस्फुटित
मुखचन्द्रशुक्तिकुहरनिःसृता मुक्ता इव ताराः । अथवा ताराणामुपमानं जलबिन्दवः
ते हि जलाशयादिषु सम्भवन्ति, ततोऽनवरतभ्रान्तिश्रान्तस्य खेः पश्चिमाचलशिख-
रात् प्रदत्तझम्पावशेन तोयनिवेरुच्छलिता नभसि जलबिन्दव इव ताराः ॥
सूक्ष्मरक्तानि वृत्तानि नखरत्नेभबिन्दवः ।
गुञ्जेन्द्र गोपखद्योताः स्फुलिङ्गकुद्धलोचने ।
पूगशोणाश्मबन्धूकबदरीवटयोः फले ॥ १२५ ॥
एतेऽन्येऽपीत्यादि । यथा - वर्ण्या मणयस्तेषामुपमानं रत्नानि ततो जलधरैजलवेः
पीतस्फुलिङ्गा इव मणयः ।
वर्ष्या इन्द्रगोपास्तेषामुपमानं रत्नानि ततो जलधरर्जलधेः पीतसरलजलैर्जलै:
समं वृष्टै रस्नैरिव इन्द्रगोपैर्भुर्व्याप्ता ।
वर्ण्याः खद्योतास्तेषामुपमानं वन्हिस्फुलिङ्गास्ततो घनघटासङ्घदृशत खण्डितविधु-
दनेः खण्डलवा इव खद्योताः ।
वर्ष्यानि बन्धुजीवानि तेषामुपमानं शोणरत्नानि ततो वनलक्ष्म्याः शरत्कालेन
क्लृप्तानि माणिक्याभरणानीव बन्धुजीवकुठमानि ॥
सूक्ष्मश्यामानि वृत्तानि जम्बूभृङ्गकनीनिकाः ।
चूचुका: साञ्जनाश्चेन्द्रनीलो गुञ्जाऽतसीसुमे ॥ १२६ ॥
एतेऽन्येऽपीत्यादि । यथा-वर्ण्यानि जम्बूफलानि तेषामुपमानं साञ्जनाश्रुबिन्दवः,
ते दुःखात् स्त्रियो भवन्ति, ततः परवल्लीः स्पृशन्तं मारुतकामुकं दृष्ट्वा जम्वूलतया
साञ्जनाश्रूणीव मुक्तानि जम्बूफलानि ।
वर्ष्या भ्रमरी तस्या उपमान कनीनिका सा हि नेत्रे भवति, ततो वसन्तनायकं
पश्यन्स्या माधवीलताया विस्मेरकुमनेत्रान्तर्भमरी कनीनिकेव निश्चला ।
वर्थ्यो चचुकौ तयोरुपमानं भृङ्गौ तावपि कमलाश्रयौ भवतः, ततो रतिप्रीति-
क्रीडाकमलयोः कुचयोः कृतास्पदौ भृङ्गावित्र चचुकौ ॥