This page has not been fully proofread.

स्तबंक: ३ ]
 
काव्यकल्पलतावृत्तिः ।
 
गर्तापिधानं चङ्गेरीकुम्पिकालोकनालयः ।
तिलेक्षुपेषुकृद्यन्त्रे पालकं द्यूतगतिका ॥ ११३ ॥
 
पतेऽन्येऽपीत्यादि । वर्ष्या नाभिः तस्या उपमानं कृपस्ततः स्तनारघट्टोपरि लुलित-
रोमालिमालालावण्यजलपूर्णः शृङ्गारवनसेचनाय मदनारामिकेण नाभीरूपः कृप इव
प्रगुणीकृतः ।
 
वर्ज्यानि पद्मानि तेषामुपमानं चषकानि ततो जलदेवतानां मधुपूर्णानि चषका-
नीव पद्मानि ॥
 
पिण्डिताकृतिवृत्तानि गोलस्तबककन्दुकाः ।
कन्देभकुम्भधम्मिल्लनितम्बस्तनमौलयः ॥ ११४ ॥
दुष्यं घण्टिका मुष्टयंसक रोटिककुदण्डकाः ।
राहुम्रक्षणपिण्डोधःकपिशीर्षघटाः फलम् ॥ ११५ ॥
गुल्मं फालं वयःसाररथाङ्गा हंसजाहकौ ।
 
१२५
 
मोदकः कलशस्तुम्बकमण्डलुसमुद्रकाः ॥ ११६ ॥
नारङ्गचूत करुण बिल्वजम्बोरदा डिमाः ।
बीजपूरीनारिकेल्यावित्यादिद्रुफलावलिः ॥ ११७ ॥
एतेऽन्येऽपीत्यादि । वर्ण्यो स्तनौ तयोरुपमानं कुम्भौ ततः शृङ्गाररसपूर्णौ तटस्थ-
निष्पन्दलेखाकृतिरोमावलिरम्यौ मुखस्थितचूचुकच्छलेनेन्द्रनीलपिधानौ नार्या: कुम्भा
विव कुचौ ।
 
वर्ण्यो वप्रस्तस्योपमानं वलयं तस्याधारो बाहुस्ततो वसुधावध्वा अन्तरोल्लखित
वलयमिव वप्रः । नार्याः शृङ्गारवल्लेश्वचुकच्छलनिलीनभृङ्गौ कुठमस्तबकाविव कुचौ ।
रतिप्रीतिभ्यां कामदेवस्य त्रिभुवनराज्याभिषेकाय चुचुकच्छलमुखस्थिताश्वत्थपलवौ
कनककुम्भाविव कुचौ ।
 
वण्यंश्चन्द्रस्तस्योपमानं हंसस्ततो नभःकासारे ज्योत्स्नाजलसम्भृते लाग्छनच्छलेन
कलितशैवलवल्लरीपल्लवो हंस इव चन्द्रः ॥
 
गर्भप्रकाशवृत्तानि घटीमुकुटकण्टिकाः ।
ताडपत्रककटकाङ्गदाः कङ्कणमूमिका ॥ ११८ ॥
हस्तसूत्रं नूपुरे द्वग्रक्षारक्षार्थकण्डके ।
पुष्पस्रङ्मेखला हारो रुण्डमालाकपर्दकौ ॥ ११९ ॥
कटथा: सुत्रगुणो मौञ्जीजपघर्घरमालिके ।
परिवेषः कुण्डलना प्राकारपरिखावृतिः ॥ १२० ॥
कर्णपाशो बाहुपाशो पालिबाह्यालिवागुराः ।
घटकण्ठः कृष्टचापं चषालव्योममण्डले ॥ १२९ ॥
दिव्यार्थमण्डलश्रोणीकुण्डलीभूतकुण्डली ।
पर्यस्तिका योगपट्टवल्गोपवीतरश्मयः ॥ १२२ ॥
 
एतेऽन्येऽपीत्यादि । यथा-वयों वप्रस्तस्योपमानं कपर्दस्तस्याधारः शिवस्ततो