This page has not been fully proofread.

अमरचन्द्रयतिकृता-
इष्टका तिलकं केतुः पटः पाणिः प्रसारितः ।
प्रशस्तिपट्टिका शय्या पटुः शकटमञ्चकौ ॥ १०३ ॥
गवाक्षसारफलकं कटद्वारपटादयः ।
 
एतेऽन्येऽपि - इत्यादि । वर्ण्य पुस्तकं तस्योपमानं मञ्जूषा साऽपि रवस्थानं, ततो
घृतकाव्यरसा मञ्जूषेव पुस्तिका ।
 
वर्ण्य तिलकं तस्योपमानं तूलिका, ततो मदननृपतेर्वाला शरीर सौधोपरि क्रीडायै
चतुरस्त्रमुक्कातिलकच्छलेन विशदप्रभाच्छलोत्तरच्छदा तूलिकेव प्रगुणीकृता ।
 
वर्ष्या तूलिका तस्या उपमानं चतुरस्रतिलकं ततो गृहलक्ष्म्याश्चन्दनं तिलक
मित्र तूलिका ।
 
9
 
वर्ण्य ललाटफलकं तस्योपमानं प्रशस्तिपट्टिका, ततः कन्दर्पदेवतायतने बाला-
शरीरे कस्तूरिका पत्रवल्लीमिचाऽक्षरमालिका प्रशस्तिपट्टिव ललाटफलकम् ॥
 
वृत्तपदार्थसङ्ग्रहो यथा -
 
१२४
 
-
 
सम्पूर्णगर्भवृत्तानि मुखपद्मेन्दुदर्पणाः ॥ १०४ ॥
कपोलकुण्डले तालसूर्यभाजनगाब्दिकाः ।
 
[ प्रतानः ४-

 
झल्लरी कमठं पुराडं लूतागृहदलस्फुराः ॥ १०५ ॥
छत्रव्यजनचालिन्या मृदङ्गपुटप्पकाः ।
घरट्टमण्डकौ कन्दुरालवालः सरो मही ॥ १०६ ।
द्वीपः शरावः कंसालकरिश्रवणकौशिकाः ।
 
कुलालरथकृष्णानां चक्राणि शाणयन्त्रकम् ॥ १०७ ॥
तुलावेलाज कैवर्तजालावर्तारघट्टकाः ।
 

 
एतेऽन्येऽपीत्यादि । वर्ण्यः सूर्यस्तस्योपमानमादर्श: स स्त्रीपाश्र्वं भवति, ततः
पूर्वदिङ्नार्या आदर्श इव प्राभातिको रविः । अथवा खेरुपमानं पुण्ड्र: सोऽपि स्त्रीमुखे
भवति, तत पूर्वदिगङ्गनामुखे पद्मरागपुण्ड्रमिव रविः
 
वर्ण्यश्चन्द्रस्तस्योपमानं छन्नं तदपि राज्ञो भवति, ततो मदनभूपतेश्छत्रमिव चन्द्रः ।
अथवा चन्द्रस्योपमानं स्फुरा सापि भटस्य भवति, ततो मदनसुभटस्य स्फुरामण्डल-
मित्र चन्द्रः ॥
 
गम्भीरमध्यवृत्तानि नाभिस्थालीगुहानदाः ॥ १०८ ॥
कुण्डं वापी श्रुतिः कृपो मुखं गर्भकचोलके ।
कमण्डलुघटग्रीवाचक्रनाभिरुलूखलः ॥ १०९ ॥
कटाहमणिकौ कुण्डी कम्बुः कुतपपङ्कजे ।
चषकं कुम्भभृङ्गारौ श्रीभाजनाप्यमण्डले ॥ ११० ॥
हारका सेनिका पल्ली करण्डो धूपवर्तकः ।
कपालखर्परे तुम्बसमुद्रकरका द्वतिः ॥ १११ ॥
घण्टाशिरस्कधत्तूरसुमनोभेरिकाहलाः ।
मालप्रणालनलिकाः शरधिर्धमनी घटी ॥ ११२ ॥