This page has been fully proofread once and needs a second look.

काव्यकल्पलतावृत्तिः ।
 
१२३
 
मुकुटगलितगङ्गानीरकल्लोलमालास्नपित गिरिशकण्ठस्पष्टरुग्देहयष्टिः ।

अभिनवजलवाहव्यूहधारा विशुद्धाञ्जन शिख रिगरीयः शृङ्गचङ्गाङ्गलक्ष्मीः ॥

 
दिनपरिवृढ पुत्रीगर्भ नीलारविन्दप्रसृमरमथुपालीपक्षतिप्रख्यकान्तिः ।

जलशयनशरीरस्फाररोचिः प्रपञ्चच्छु रितसलिलराशिभ्राजमानाङ्गयष्टिः ॥

 
इति कृष्णः ।
 

 
मसृणघुसृणपङ्काभ्यङ्गचञ्चच्चलाक्षी कुचकलशपिधानोद्दामकौसुम्भकान्तिः ।

तरुणतरणिकान्तिप्रान्तसंसर्ग रङ्गत्कमलदलकदम्बप्रायकायप्रभोभिः ॥
र्मिः ॥
 
अभिनवरविरश्मिद्यो तितप्राच्यभूभृच्छिखरल सदशोकस्मेरपुष्पोपमानः ।

पतिकुपितमृगाक्षीलोचनप्रान्तरोचिश्छुरितक्रमलकर्णोत्तंससङ्काशकान्तिः
 
स्तबक: २ ]
 


 
इति रक्तः ।
 

 
मुररिपुपद निर्यज्जान्हह्नवीनीर पुरस्त्रपितगरुडपक्षप्रख्यसंलक्ष्यलक्ष्मीः ।

तरुणकिरणमालिस्फूर्जदंशुप्ररोह:हः स्मितकनकसरोजव्यूहतुल्याङ्गकान्तिः ॥

 
जलधरनिकुरम्बोद्दामधारा निपातस्त्र पितकनक शैलस्पर्द्धि रोचिष्णुकान्तिः ।

तरुणतरमृगाक्षीगण्डरोचिःप्रपञ्चच्छुरित कनककर्णोत्तंससद्वर्ण्यवर्णः ॥
 

 
इति पीतवर्ण: ।
 

 
सदृशं सदृशेनोपमेयम् । यथा -
 
--
 
अमरनिकरयाञ्चा विस्फुरत्कामधेनुस्त नगलितपयोवद्भारती यस्य रेजे ।

हिम किरणमयूखप्रान्तभिन्नेन्दुकान्तप्रसरदमृततुल्या यस्य वाचो विभान्ति ॥

 
दनुतनुज विपक्षक्षुब्धदुग्धाब्धिगर्भोल्लसद्मृतसमाना रेजिरे यस्य वाचः ।

मदनमथनचूडा चन्द्ररोचिष्णुगङ्गालहरिभरसमाना शोभते यस्य वाणी ॥

 
एवमन्यदपि ॥
 

 
इति श्रीजिनदत्त० अर्थसिद्धिप्रताने चतुर्थे वर्ण्यस्तबको द्वितीयः ॥
 

---------------------------
 
अथ आकारेभ्यस्तत्रापि प्रथमं चतुरस्त्राकारादर्थोत्पत्तये चतुरस्राकारपदार्थसङ्ग्रहा
 
हः ।
यथा-
-
 
चतुरस्राणि व्यजनं कुम्भिका च पताकिका ।
 

चातुरी मञ्चिका सिंहासनं पार्थिवमण्डलम् ॥ १०१ ॥

 
एतेऽन्येऽपि चतुरस्त्रपदार्थाः परस्परमौचित्यादुपमानं क्रियन्ते । उपमानीकृतपदा-

र्थस्य वर्णादयो गुणा उपमेये रोप्यन्ते । यथा - --वर्ण्यं पार्थिवमण्डलं तस्योपमानं सिंहा.
-
सनं तस्याधेयं राजा ततः सर्वकार्य करणक्षमस्य मन्त्राधिराजस्य सिंहासनमिव

पार्थिवमण्डलम् ॥
 

 
प्रलम्बचतुरस्त्रपदार्थसङ्ग्रहो यथा-
-
 
प्रलम्बचतुरस्राणि खट्वा स्थण्डिलतूलिका ।

कपाटपट्टिकापेटापट्टाः प्रालकपुस्तके ॥ १०२ ॥