This page has not been fully proofread.

काव्यकल्पलतावृत्तिः ।
 
१२३
 
मुकुटगलितगङ्गानीरकल्लोलमालास्नपित गिरिशकण्ठस्पष्टरुग्देहयष्टिः ।
अभिनवजलवाहव्यूहधारा विशुद्धाञ्जन शिख रिगरीयः शृङ्गचङ्गाङ्गलक्ष्मीः ॥
दिनपरिवृढ पुत्रीगर्भ नीलारविन्दप्रसृमरमथुपालीपक्षतिप्रख्यकान्तिः ।
जलशयनशरीरस्फाररोचिः प्रपञ्चच्छु रितसलिलराशिभ्राजमानाङ्गयष्टिः ॥
इति कृष्णः ।
 
मसृणघुसृणपङ्काभ्यङ्गचञ्चच्चलाक्षी कुचकलशपिधानोद्दामकौ सम्भकान्तिः ।
तरुणतरणिकान्तिप्रान्तसंसर्ग रङ्गत्कमलदलकदम्बप्रायकायप्रभोभिः ॥
अभिनवरविरश्मियो तितप्राच्यभूभृच्छिखरल सदशोकस्मेरपुष्पोपमानः ।
पतिकुपितमृगाक्षीलोचनप्रान्तरोचिश्छुरितक्रमलकर्णोत्तंससङ्काशकान्तिः
 
स्तबक: २ ]
 

इति रक्तः ।
 
मुररिपुपद निर्यज्जान्हवीनीर पुरस्त्रपितगरुडपक्षप्रख्यसंलक्ष्यलक्ष्मीः ।
तरुणकिरणमालिस्फूर्जदंशुप्ररोह: स्मितकनकसरोजव्यूहतुल्याङ्गकान्तिः ॥
जलधरनिकुरम्बोद्दामधारा निपातस्त्र पितकनक शैलस्पद्धि रोचिष्णुकान्तिः ।
तरुणतरमृगाक्षीगण्डरोचिःप्रपञ्चच्छुरित कनककर्णोत्तंससद्वर्ण्यवर्णः ॥
 
इति पीतवर्ण: ।
 
सदृशं सहशेनोपमेयम् । यथा -
 
अमरनिकरयाचा विस्फुरत्कामधेनुस्त नगलितपयोवद्भारती यस्य रेजे ।
हिम किरणमयूखप्रान्तभिन्नेन्दुकान्तप्रसरदमृततुल्या यस्य वाचो विभान्ति ॥
दनुतनुज विपक्षक्षुब्धदुग्धाब्धिग मल्लसद्मृतसमाना रेजिरे यस्य वाचः ।
मदनमथनचूडा चन्द्ररोचिष्णुगङ्गालहरिभरसमाना शोभते यस्य वाणी ॥
एवमन्यदपि ॥
 
इति श्रीजिनदत्त० अर्थसिद्धिप्रताने चतुर्थ वर्ण्यस्तबको द्वितीयः ॥
 
अथ आकारेभ्यस्तत्रापि प्रथमं चतुरस्त्राकारादर्थोत्पत्तये चतुरस्राकारपदार्थसङ्ग्रहा
 
यथा-
चतुरस्राणि व्यजनं कुम्भिका च पताकिका ।
 
चातुरी मञ्चिका सिंहासनं पार्थिवमण्डलम् ॥ १०१ ॥
एतेऽन्येऽपि चतुरस्त्रपदार्थाः परस्परमौचित्यादुपमानं क्रियन्ते । उपमानीकृतपदा-
र्थस्य वर्णादयो गुणा उपमेये रोप्यन्ते । यथा - वर्ण्य पार्थिवमण्डलं तस्योपमानं सिंहा.
सनं तस्याधेयं राजा ततः सर्वकार्य करणक्षमस्य मन्त्राधिराजस्य सिंहासनमिव
पार्थिवमण्डलम् ॥
 
प्रलम्बचतुरस्त्रपदासङ्ग्रहो यथा-
प्रलम्बचतुरस्राणि खट्वा स्थण्डिलतूलिका ।
कपाटपट्टिकापेटापट्टाः प्रालकपुस्तके ॥ १०२ ॥