This page has been fully proofread once and needs a second look.

१२२
 
[ प्रतानः ४-
-
 
अमरचन्द्रयतिकृता-
भयानकरसो वैश्यवर्णधर्मपितृव्रताः ।
 

ऋषभ प्रमुखास्तीर्थकराः षोडश वासराः ॥ ९४ ॥

 
सुराद्रिः काञ्चनं कांस्यं रीतिः किञ्जल्कवल्कले ।

परिव्राजकवस्त्राणि हरितालमनः शिले ॥ ९५ ॥

 
हरिद्रा रोचना हीरो गन्धकं दीपचम्पके ।

कर्णिकारं सुवर्णाब्जरम्भाकेतकशालयः ॥ ९६ ॥

 
हरयो रथाङ्गनामा वानरः सारिकाक्रमौ ।
 

 
एतेऽन्येऽपि पीतपदार्थाः परस्पर मौचित्यादुपमानं क्रियन्ते । उपमानीकृतपदार्थस्य

वर्णादयो गुणा उपमेये रोज्प्यन्ते । यथा - -वर्ण्यो रविस्तस्योपमानं कोकस्तस्याधारः
-

सरस्ततो नभःसरोवरे रविश्चक्रवाक इव ।
 
वर्ष्

 
वर्ण्
याः कोकास्तेषामुपमानं परागस्ततः सरसि स्मेरसरसिजपरागस्तबका इव
 

चक्रवाकाः ।
 

 
वर्ण्य :यः परागस्तस्योपमानं कङ्कुमाम्भस्तदाधारो नारीशरीरं ततः काननलक्ष्म्या

वसन्तप्रियागमे परागप्रसरपरिष्वङ्गमिषेण कुङ्कुमलेप इव चक्रे ।
 
वर्थ्

 
वर्ण्
यो रविस्तस्योपमानं गरुडस्तस्य क्रिया सर्पवधस्ततस्तिमिरसर्पाणां गरुड
इव रविः ॥
 

 
अथ धूसरादिभ्योऽर्थोत्पत्तये धूसरादिपदार्थसङ्ग्रहो यथा -
 
-
 
धूसरा रेगुणुमण्डूककरभा गृहगोधिका ॥ ९७ ॥

 
गर्दभो मूषको दुर्गाकाककण्ठकपोतकाः ।
 
यथा-
·

पुलकोऽहिः शिखिपिच्छाऽधोभागः करुणो रसः ॥ १८ ॥

 
कपोललेश्योर्णनाभशकुनाः कर्वरी तथा ।
 

 
वर्ण्या मण्डूकास्तेषामुपमानं करुणो रसस्तस्थायाधारो दुःखिनस्ततो वर्षाकाले

चलमण्डूकावलिच्छलेन विरहार्त्तानां हृदयेभ्य उद्भ्रान्तः करुणो रस इव ॥
 

 
हुवर्णाः शिखिपिच्छेन्द्र चापश्रीदचित्रकाः ॥ ९९ ॥
 

 
वर्ण्यं धनुस्तस्योपमानं शिखिपिच्छेछं ततस्तस्याघारो गोपवर्णः ततः कृष्णमेघस्

गोपालानां प्रपन्नस्य शिखिपिच्छाभरणमिव इन्द्रधनुः ॥
 

 
उत्कर्षमुपमेयस्य परिकल्पयितु सुधीः ।
 

विशेषणैः परिष्कारमुमानस्य कल्पयेत् ॥ १०० ।

 
उपमेयस्य शोभातिशयख्यापनाय कथाऽपि युक्त्या विशेषणैरलङ्कृतमुपमानं कुर्वीत ।
 

यथा--
 
सरनिकरकराग्रव्यग्रमन्थानशैलक्षुभिततरलदुग्धाम्भोधिकल्लोलकान्तिः ।

हिम किरणरीचिव्यूहविभ्राजमानक्षितिरपतिचूडाजाह्नवी कल्पकान्तिः ॥

 
तुहिन गिन्तिरितनूजा नवनम्रभूतेशचूडागलितगगनगङ्गाधौतबालेन्दुगौरः ।

गिरिशमुकुटचन्द्रज्योतिरुद्योतमानस्फटिकशिखर चुचूडास्पर्धमानाङ्गकान्तिः ॥

 
इति श्वेतवर्णः ।