2023-04-12 04:24:51 by ambuda-bot
This page has not been fully proofread.
१२२
[ प्रतानः ४-
-
अमरचन्द्रयतिकृता-
भयानकरसो वैश्यवर्णधर्मपितृव्रताः ।
ऋषभ प्रमुखास्तीर्थकराः षोडश वासराः ॥ ९४ ॥
सुराद्रिः काञ्चनं कांस्यं रीतिः किञ्जल्कवल्कले ।
परिव्राजकवस्त्राणि हरितालमनः शिले ॥ ९५ ॥
हरिद्रा रोचना हीरो गन्धकं दीपचम्पके ।
कर्णिकार सुवर्णाब्जरम्भाकेतकशालयः ॥ ९६ ॥
हरयो रथाङ्गनामा वानरः सारिकाक्रमौ ।
एतेऽन्येऽपि पीतपदार्थाः परस्पर मौचित्यादुपमानं क्रियन्ते । उपमानीकृतपदार्थस्य
वर्णादयो गुणा उपमेये रोज्यन्ते । यथा - वर्ण्यो रविस्तस्योपमानं कोकस्तस्याधारः
-
सरस्ततो नभःसरोवरे रविक्रवाक इव ।
वर्ष्याः कोकास्तेषामुपमानं परागस्ततः सरसि स्मेरसरसिजपरागस्तबका इव
चक्रवाकाः ।
वर्ण्य : परागस्तस्योपमानं ककुमाम्भस्तदाधारो नारीशरीरं ततः काननलक्ष्म्या
वसन्तप्रियागमे परागप्रसरपरिष्वङ्गमिषेण कुङ्कुमलेप इव चक्रे ।
वर्थ्यो रविस्तस्योपमानं गरुडस्तस्य क्रिया सर्पवधस्ततस्तिमिरसर्पाणां गरुड
इव रविः ॥
अथ धूसरादिभ्योऽर्थोत्पत्तये धूसरादिपदार्थसङ्ग्रहो यथा -
धूसरा रेगुमण्डूककरभा गृहगोधिका ॥ ९७ ॥
गर्दभो मूषको दुर्गाकाककण्ठकपोतकाः ।
यथा-
· पुलकोऽहिः शिखिपिच्छाऽधोभागः करुणो रसः ॥ १८ ॥
कपोललेश्योर्णनाभशकुनाः कर्वरी तथा ।
वर्ण्या मण्डूकास्तेषामुपमानं करुणो रसस्तस्थाधारो दुःखिनस्ततो वर्षाकाले
चलमण्डूकावलिच्छलेन विरहार्त्तानां हृदयेभ्य उद्भ्रान्तः करुणो रस इव ॥
वहुवर्णाः शिखिपिच्छेन्द्र चापश्रीदचित्रकाः ॥ ९९ ॥
वर्ण्य धनुस्तस्योपमानं शिखिपिच्छे ततस्तस्याघारो गोपवर्णः ततः कृष्णमेघस्थ
गोपालानां प्रपन्नस्य शिखिपिच्छाभरणमिव इन्द्रधनुः ॥
उत्कर्षमुपमेयस्य परिकल्पयितु सुधीः ।
विशेषणैः परिष्कारमुवमानस्य कल्पयेत् ॥ १०० ।
उपमेयस्य शोभातिशयख्यापनाय कथाऽपि युक्त्या विशेषणैरलङ्कृतमुपमानं कुर्वीत ।
सरनिकरकराग्रव्यग्रमन्थानशैलक्षुभिततरलदुग्धाम्भोधिकल्लोलकान्तिः ।
हिम किरणरीचिव्यूहविभ्राजमानक्षितिघरपतिचूडाजाह्नवी कल्पकान्तिः ॥
तुहिन गिन्तिनूजा नवभूतेशचूडागलितगगनगङ्गाधौतबालेन्दुगौरः ।
गिरिशमुकुटचन्द्रज्योतिरुद्योतमानस्फटिकशिखर चुडास्पर्धमानाङ्गकान्तिः ॥
इति श्वेतवर्णः ।