This page has not been fully proofread.

स्तबकः २ ]
 
काव्यकल्पळतावृत्तिः ।
 
रक्तवर्णादर्थोत्पत्तये रक्तपदार्थसङ्ग्रहो यथा-
शोणानि भौमभीमान्धाः शङ्खतक्षकपन्नगाः ॥ ८४ ॥
पद्मप्रभा वास्तुपूज्यौ जिनेद्रौ नवभानुमान् ।
त्रेता त्रेता हरिः क्षत्रवर्णधर्मपितृव्रजाः ॥ ८५ ॥
सन्ध्योल्कावन्हयो विद्युत्ताम्रे विद्रुमकुङ्कुमे ।
 
पद्मरागसुरारक्तचन्दनालक्तकद्रवाः ॥ ८६ ॥
द्वगन्ताघरजिह्वासृङ्मांस सिन्दूरधातवः ।
हिङ्गुलं मधु रत्नानि स्फुलिङ्गा हस्तिबिन्दवः ॥ ८७ ॥
नखेन्द्रगोपखद्योताः कुक्कुटस्य शिखा तथा ।
चकोरसारसपारावतकोकिलदृष्टयः ॥ ८ ॥
कियाहो हंसचञ्च्वङ्घ्री शुकमर्कटयोर्मुखम् ।
कुसुम्भकिंशुकाशोकजपाबन्धूकपाटलाः ॥ ८२ ॥
पनवा दाडिमीपुष्पं बिम्बीकिम्पाकयोः फले ।
गुञ्जा कोकनदं रौद्ररसो रागघटेष्टिकाः ॥ ९० ॥
ताम्बूलरागो मजिष्ठा वज्रज्ञतनखक्षते ।
 
तेजोलेश्याः पद्मलेश्याः क्रोधः क्रुद्धवपुर्मंदः ॥ ११ ॥
वश्याकर्षणयोर्ध्यानं सपाकफलमण्डली ।
 
१२१
 
-
 
एतेऽन्येऽपि रक्तपदार्थाः परस्परमौचित्यादुपमानं क्रियन्ते । उपमानीकृत पदार्थस्य
वर्णादयो गुणा उपमेये रोप्यन्ते । यथा - वर्ण्याः किंशुकास्तेषामुपमान कौसम्भवासांसि
ततो वसन्तप्रियसमागमे वनस्थनिरन्तरस्मेरित किंशुककुठमश्रेणिमिषेण करैः कौसम्भ-
वासांसि परिहितानि ।
 
वर्ण्या कडेलिस्तस्या उपमानमनुरागस्ततो वसन्तानुरकया वनहक्ष्स्या कङ्रेलि
च्छलेन मूर्त्तोऽनुराग इव प्रकटीचक्रे । अथवा वनश्रियो मुखमण्डनं कुड्कुमस्तबक इव
कडुलिः
 
वर्ण्या सन्ध्या तस्या उपमानं वन्हिस्ततः प्राणनाथेऽस्तङ्गते खौ दिग्वधूभिरनु
रागमयोभिः सन्ध्याच्लेन प्रगुणीकृतो वन्हिरिव । अथवा चक्रवाकहृदयेभ्यो विरहा.
निज्वालाकलाप इव सन्ध्याच्छलेन नभोऽभिव्यापी बभूव ।
 
वर्ध्या जपा तस्या उपमानं रत्नानि ततः शरत्कालनवलक्ष्म्या जपाकुसुमच्छलेन
रत्नानीव प्रदत्तानि ।
 
१६ का० क०
 
वर्ण्यो बालार्कस्तस्योपमानं कुकुटशिखा ततः प्रातः किरणावृतमूर्तिननावर्णवन-
पक्षतेरुदयगिरिकुक्कुटस्य शिरःस्थितो रविः शिखाशोभां लभते ॥
पिङ्कलवर्णादर्थोत्पत्तये पिङ्गलवर्णपदार्थसङ्ग्रहो यथा -
 
पीतानि ब्रह्मसूर्येन्द्रगरुडेश्वरद्वग्जटाः ॥ ९२ ॥
पद्मनाभो गुरुर्विष्णोश्चक्रं वीररजोगुणाः ।
गिरिजाऽगस्तिरिन्द्राश्वा द्वापरो द्वापराच्युतः ॥ १३ ॥