This page has not been fully proofread.

१२०
 
अमरचन्द्रयतिकृता-
स्याधारो वीरस्तता मदनवीरेण भवनिष्फलीकृतपञ्चशरेण स्त्रीवेणीमिषात् कृपाणदण्ड
इव प्रगुणीकृतः ।
 
वर्ण्य तमस्तस्योपमानं घूमः, धूमाघारोऽग्निस्ततः सन्ध्यावन्द्वेधूमैरिव तमोभि
यता दिशः ।
 
[ प्रतानः ४-
MUDA
 
वयं तमस्तस्योपमानं कज्जलं, कज्जलाधारस्योपमानं धूमः, धूमाधारोऽग्निस्ततः
सन्ध्यावन्हेराधारो दीपस्तत औषधीदीपसमुद्भूतैः कज्जलैरिव तमोभिर्मलिना दिशः ।
अथवा रविवियोगार्तानां दिग्वधूनां साञ्जनासलिलानीव तमांसि ।
 
वर्ण्य इन्दुकलङ्कस्तस्योपमानं नीलपद्मं तस्याधारः सरस्ततो नभोरण्ये सुधारस
स्तन लाञ्छनच्छलादुत्तंसो नीलोत्पलम् । अथवा यामिनीकामिन्या मुखमिव चन्द्रस्त
ल्लाञ्छनच्छलादुत्तंसो नीलोत्पलम् । अथवा लाञ्छनस्य पापमुपमानं पापस्य दुष्कृता-
दुत्पत्तिः, ततो रविवियोगार्त्तपद्मिनीनां लक्ष्मीहरणपातकादिव चन्द्रस्य लाञ्छनच्छला-
न्मुहूर्तं पातकमिव दृश्यते । तथा इन्दुकलङ्कस्योपमानं कस्तूरिका तस्या आधारो
रूप्यकच्चोलकम् । ततो यामिनीकामिनी स्वमण्डनार्थं चन्द्रस्य कचोलको लाञ्छन-
व्याजात्कस्तूरिकापडूमिव प्रगुणीचकार । अथेन्दुलाञ्छनस्य विषमुपमानं तत आत्मानं
क्रूरस्वभावेन निर्विण्णं भ्रातृस्वभावस्वीकरणाय लाञ्छनच्छलात्कालकूटं चन्द्रमिव
सेवते । अथवा यामिन्याः स्वपतेश्चन्द्रस्य चक्षुर्दोषापनयनार्थं लाञ्छनव्याजात्कजला-
: कृत इव ।
 
वर्ण्य नीलोत्पलं तस्योपमानं लाञ्छनं ततः कामिनीचन्द्रे नीलोत्पलं लाञ्छनमिव ।
वर्ण्यो धम्मिलस्तस्योपमानं राहुस्ततः कालवशादिव गतवैरः सुमुखीमुखपार्श्वे
चन्द्रभ्रमाद्धम्मिल्लच्छलेन राहुरिच समागतः ।
 
वर्या श्रीकण्ठकण्ठरुचिस्तस्या उपमानं तमस्ततस्त्वं हे प्रभो सर्वेपामपि
सामान्यप्रभुस्ततः किमस्मद्वैरिणं चन्द्रं शिरसा धत्स इति विज्ञप्तयेऽन्धकारमिव कण्ठ-
रुचिच्छलादीश्वरमाश्रितम् । अथवा कण्ठरुचि निजमतललाटेन्दुमिलनाय जलधिरिव
समागतः । अथवा कण्ठरुचिच्छलाद्गङ्गास्पर्धेयेव यमुना ईश्वरं समागता ॥
 
नीलवर्णादर्थोत्पत्तये नीलपदार्थसङ्ग्रहो यथा-
नीलानि बुधकर्कोटौ मल्लिपार्श्वों जिनेश्रौ ।
बीभत्सरसवायू च नीलको नीलवानरः ॥ ८२ ॥
शुको नीलोत्पलं दूर्वा प्रियङ्गुदलशैवले ।
वंशाङ्करो मरकतेन्द्रनीलो रविवाजिनः ॥ ८३ ॥
काचो मुद्रस्तथा नीललेश्या बालतृणादयः ॥
एतेऽन्येऽपि नीलपदार्थाः परस्परमौचित्यादुपमानं क्रियन्ते । उपमानीकृतपदार्थस्य
वर्णादयो गुणा उपमेये रोप्यन्ते यथा-वण्यं: पार्श्वजिनस्तस्योपमानं नीलोत्पलं तस्या-
धारः सरस्ततो यस्य मनःसरसि श्रीः पावें नीलोत्पलीभवति तस्यलक्ष्मीर्म दूरे ।
 
वर्ष्या शुकावली तस्या उपमानमिन्द्रनीलमणिमाला, ततः शरदि नभोकक्ष्म्या
इन्द्रनीलमणिमालेच शुकावली ॥