This page has been fully proofread once and needs a second look.

स्तबक: २ ]
 
काव्यकल्पलतावृत्तिः ।
 
परस्परसंघट्टधर्मादिव रवितापधर्मादिव आत्मवशभृङ्गं परवल्लीगतं दृष्ट्वा कोपादिव

वल्लीनां स्वेदबिन्दव इव पुष्पाणि । अथवा पुष्पाणां तारका उपमानं तारकाणामाधार

आकाशस्ततो वनाकाशे पुष्पाणि तारका इव । अथवा रवितापत्रस्ताः शीतलवनो.
-
पान्तमाश्रितास्तारा इव पुष्पाणि । अथवा स्मोपकारकरान्धकारम्भ्रान्त्या श्यामलवन
-
मुपाश्रितारा इव पुष्पाणि ।
 
थया

 
यथा
- -वर्ण्यः प्रासादस्तस्योपमानं हिमाचलस्तस्य परिवारो गङ्गा ततः प्रासादो

हिमाचलस्तत्र गङ्गेव पताका ।
 

 
यथा
-
 
यथा
- वर्ण्यः प्रासादस्तस्योपमानं धर्मस्ततः प्रासादो धर्मो लोकपातकवैरिणो

जित्वा पताकाच्छलान्मौलेरुपरि पर्टीटीं चालयति ॥
 

 
अथ कृष्णवर्णादर्थोत्पत्तये कृष्णपदार्थोपसङ्ग्रहो यथा-
-
 
कृष्णानि केशवः सीरिचीर चन्द्राङ्कराहवः ॥ ७१ ॥

 
विन्ध्याऽञ्जनाद्रिसुव्रतनेमिनाथौ जिनेश्वरौ ।

धूमकेतुर्महापद्मानन्तनागौ यमासुरौ ॥ ७२ ॥

 
सर्पराक्षसशन्यश्च शिवकण्ठघनाशनिः ।

कालिः कलिहरिद्वैपायनरामधनञ्जयाः ॥ ७३ ॥
 

 
शूद्राणां वर्णो धर्मः पितरश्च तमोगुणाः ॥

काली देवी दुद्रुपदजा राजपादो विदूरजम् ॥ ७४ ॥

 
विषाम्बरकुहूशस्त्रागुरुपापतमोनिशाः ।

धूमकज्जलकस्तूरीपङ्का बहुलदुर्दिने ॥ ७५ ॥

 
मषीमदसुरावार्द्धियमुनासाञ्जनाश्रवः ।

मुद्माषतिला मुस्तमरिचे वनशाखिनौ ॥ ७६ ॥

 
गवलं तालतापिच्छदलेन्दीवरवल्लयः ।

नीली जम्बूफलं गुखाञ्जामुखाङ्गारौ खलाजिने ॥ ७७ ॥

 
मारिदुर्वचनालीकखलाः कृत्या कुकीर्तयः ।

मारणध्यान
दुर्ध्यानकृष्णलेश्या विपद्वयय्लथा ॥ ७८ ॥

 
कूर्मो वराहखट्वाङ्गमहिषा:षाः पिकषट्पदौ ।

गोलाङ्गुगूलमुखं हस्ती कण्ठश्चटककेकिनोः ॥ ७९ ॥

 
काकः पिपीलिका दुर्गापतिखण्डनकण्डिकाः ।

मकरः कृष्णसारस्तु भिल्लाश्छाया च गोमयम् ॥ ८० ॥

 
रामारोमावलीनेत्रपदमभूक्ष्मभ्रूरोममूर्धजाः ।
 

रसावद्भुत शृङ्गारौ कटाक्षाक्षिकनीनिकाः ॥ ८१ ॥
 

 
एतेऽन्येऽपि कृष्णपदार्थाः परस्परमौचित्यादुपमानं क्रियन्ते । उपमानीकृतपदार्थस्य

वर्णादयो गुणा उपमेये रोप्यन्ते । यथा--वर्ज्या स्त्रीवेणी तस्या उपमानं कृपाण:णः कृपाण-