This page has not been fully proofread.

स्तबक: २ ]
 
काव्यकल्पलतावृत्तिः ।
 
परस्परसंघट्टधर्मादिव रवितापधर्मादिव आत्मवशभृङ्गं परवल्लीगतं दृष्ट्वा कोपादिव
वल्लीनां स्वेदबिन्दव इव पुष्पाणि । अथवा पुष्पाणां तारका उपमानं तारकाणामाधार
आकाशस्ततो वनाकाशे पुष्पाणि तारका इव । अथवा रवितापत्रस्ताः शीतलवनो.
पान्तमाश्रितास्तारा इव पुष्पाणि । अथवा स्मोपकारकरान्धकारम्रान्त्या श्यामलवन
मुपाश्रितारा इव पुष्पाणि ।
 
थया - वर्ण्यः प्रासादस्तस्योपमानं हिमाचलस्तस्य परिवारो गङ्गा ततः प्रासादो
हिमाचलस्तत्र गङ्गेव पताका ।
 
-
 
यथा - वर्ण्यः प्रासादस्तस्योपमानं धर्मस्ततः प्रासादो धर्मो लोकपातकवैरिणो
जित्वा पताकाच्छलान्मौलेरुपरि पर्टी चालयति ॥
 
अथ कृष्णवर्णादर्थोत्पत्तये कृष्णपदार्थोपसङ्ग्रहो यथा-
कृष्णानि केशवः सीरिचीर चन्द्राङ्कराहवः ॥ ७१ ॥
विन्ध्याऽञ्जनाद्रिसुव्रतनेमिनाथ जिनेश्वरौ ।
धूमकेतुर्महापद्मानन्तनागौ यमासुरौ ॥ ७२ ॥
सर्पराक्षसशन्यश्च शिवकण्ठघनाशनिः ।
कालिः कलिहरिद्वैपायनरामधनञ्जयाः ॥ ७३ ॥
 
शूद्राणां वर्णो धर्मः पितरश्च तमोगुणाः ॥
काली देवी दुपदजा राजपादो विदूरजम् ॥ ७४ ॥
विषाम्बरकुहूशस्त्रागुरुपापतमोनिशाः ।
धूमकजलकस्तूरीपङ्का बहुलदुर्दिने ॥ ७५ ॥
मषीमदसुरावाद्धियमुनासाञ्जनाश्रवः ।
मुद्रमाषतिला मुस्तमरिचे वनशाखिनौ ॥ ७६ ॥
गवलं तालतापिच्छदलेन्दीवरवल्लयः ।
नीली जम्बूफलं गुखामुखाङ्गारौ खलाजिने ॥ ७७ ॥
मारिदुर्वचनालीकखलाः कृत्या कुकीर्तयः ।
मारणध्यान
दुर्ध्यानकृष्णलेश्या विपद्वयथा ॥ ७८ ॥
कूर्मो वराहखट्वाङ्गमहिषा: पिकषट्पदौ ।
गोलाङ्गुलमुखं हस्ती कण्ठश्चटककेकिनोः ॥ ७९ ॥
काकः पिपीलिका दुर्गापतिखण्डनकण्डिकाः ।
मकरः कृष्णसारस्तु भिलाश्छाया च गोमयम् ॥ ८० ॥
रामारोमावलीनेत्रपदमभूरोममूर्धजाः ।
 
रसावद्भुत शृङ्गारौ कटाक्षाक्षिकनीनिकाः ॥ ८१ ॥
 
एतेऽन्येऽपि कृष्णपदार्थाः परस्परमौचित्यादुपमानं क्रियन्ते । उपमानीकृतपदार्थस्य
वर्णादयो गुणा उपमेये रोप्यन्ते । यथा-वर्ज्या स्त्रीवेणी तस्या उपमानं कृपाण: कृपाण-