This page has been fully proofread once and needs a second look.

अमरचन्द्रयतिकृता-

 
शत्रुर्वा मित्रं वा भणनीयः । यथा -
 
--
 
भवद्यशोभरो भाति स्मेरकुन्देन्दुसुन्दरः ।

हारतारक मन्दार
कैलासोदरसोदरः :

 
कर्पूरपूरस्करुक्चौरः शरदभ्रप्रभारिपुः ।

ऐरावततुषाराद्रिशेमित्रं क्षमापते ॥
 

 
पुनर्विशेषेणोपायान्तरमाह-
-
 
गुणात् श्रिया युतभ्राजिरोचिष्णुद्योतितादयः ।

 
गुणाद्वर्ण्यवर्णादेः परतः श्रीशब्दस्तथैतदुपलक्षणात् लक्ष्मीच्छायाशोभाकला कान्ति
-
भावप्रत्ययादयः कार्याः, ततस्तत्परतः समासेन युतार्था भ्राजिष्णुरोचिष्णुद्योतितार्था-

दयश्च । क्वापि श्रीप्रभृतिशब्दान् विनापि केवलगुणादेव परतस्तथा, क्वचिदसमासे-

नापि युतार्थादयो योज्याः । यथा-
[ प्रतानः १-
-
 
शोणश्रीसंयुतो भानुर्वृत्तलक्ष्मीसमन्वितः ।

अंशूनां शोभया कीर्णो गगनस्थितिसङ्गतः ॥

 
श्यामलद्युतिविभ्राजो गर्जिरोचिष्णुवैभवः ।

विद्युता घोद्योतितः प्रीतिं स्तनयित्नुस्तनोत्ययम् ॥
 
-
 

 
तुल्यादमी सद्गुदृग्जिष्णु मुख्याः पूर्वं जितादयः ॥ २१ ॥

 
तुल्याद्वर्ण्यस्य वर्णादिभिः समानात् परतोऽमी पूर्वोक्तरीत्या युतार्थाद्यास्तथा स
दृ-
गर्भाइथाश्च जिष्णुजैत्रजयिजित्वरजितमुख्याश्च तथैतदुपलक्षणात् स्पद्विर्द्धिधिक्कारिनिर्भर्त्सक-
बि

वि
डम्बनतर्जकादयो योज्याः, तथा तुल्यात्पूर्व जित- भर्तित - वं-जित-भर्त्सित-विडम्बित- धिक्कृत-

न्यक्कृत - -निकृत - -पराभूत - -अवहेलित-अवगणित-अवमानित - -तिरस्कृत - -अधः कृत-तर्जि

तर्जि
तादयो योज्याः । यथा-
-
 
-
 
-
 
POG
 
-
 
-
 
चण्डश्रीसंयुता कीर्तिः कर्पूरभ्राजिवैभवा ।

यस्य गङ्गोर्मिरोचिष्णुः कुन्दश्रोरीद्योतिता बभौ ॥

 
कैलाससदृशं रेजे विष्णुशङ्खांशुजिष्णुभम् ।

यद्यशो विधुधिक्कारि तुषाराद्रिविडम्बनम् ॥

 
जितपार्वणशीतांशु पराभूतभवाचलम् ।

निर्भर्त्सिततुषाराद्रि भाति भूप भवद्यशः ॥
 
-
 

 
इति श्रीजिनदत्तसूरिशिष्यपण्डित श्री मदमरचन्द्रविरचितायां काव्यकल्पलताकवि-

शिक्षावृत्तौ छन्दः सिद्धिप्रताने प्रथमेऽनुष्टुप्शासनः स्तबकः प्रथमः ॥