This page has not been fully proofread.

अमरचन्द्रयतिकृता-

 
शत्रुर्वा मित्र वा भणनीयः । यथा -
 
भवद्यशोभरो भाति स्मेरकुन्देन्दुसन्दरः ।
हारतारक मन्दार
कैलासोदरसोदरः : ॥
कर्पूरपूरस्कचौरः शरदभ्रप्रभारिपुः ।
ऐरावततुषाराद्रिशेपमित्रं क्षमापते ॥
 
पुनर्विशेषेणोपायान्तरमाह-
गुणात् श्रिया युतभ्राजिरोचिष्णुद्योतितादयः ।
गुणाद्वर्ण्यवर्णादेः परतः श्रीशब्दस्तथैतदुपलक्षणात् लक्ष्मीच्छायाशोभाकला कान्ति
भावप्रत्ययादयः कार्याः, ततस्तत्परतः समासेन युतार्था भ्राजिष्णुरोचिष्णुद्योतितार्था-
दयश्च । क्वापि श्रीप्रभृतिशब्दान् विनापि केवलगुणादेव परतस्तथा, क्वचिदसमासे-
नापि युतार्थादयो योज्याः । यथा-
[ प्रतानः १-
शोणश्रीसंयुतो भानुर्वृत्तलक्ष्मीसमन्वितः ।
अंशूनां शोभया कीर्णो गगनस्थितिसङ्गतः ॥
श्यामलद्युतिविभ्राजो गर्जिरोचिष्णुवैभवः ।
विद्युता घोतितः प्रीतिं स्तनयित्नुस्तनोत्ययम् ॥
 
-
 
तुल्यादमी सद्गुजिष्णु मुख्याः पूर्वं जितादयः ॥ २१ ॥
तुल्याद्वर्ण्यस्य वर्णादिभिः समानात् परतोऽमी पूर्वोकरीत्या युतार्थाद्यास्तथा सह
गर्भाइच जिष्णुजैत्रजयिजित्वरजितमुख्याश्च तथैतदुपलक्षणात् स्पद्विधिकारिनिर्भर्त्सक-
बिडम्बनतर्जकादयो योज्याः, तथा तुल्यात्पूर्व जित- भर्तित - विडम्बित- धिक्कृत-
न्यक्कृत - निकृत - पराभूत - अवहेलित-अवगणित-अवमानित - तिरस्कृत - अधः कृत-तर्जि
तादयो योज्याः । यथा-
-
 
-
 
-
 
POG
 
-
 
चण्डश्रीसंयुता कीर्तिः कर्पूरभ्राजिवैभवा ।
यस्य गङ्गोर्मिरोचिष्णुः कुन्दश्रोद्योतिता बभौ ॥
कैलाससदृशं रेजे विष्णुशङ्खांशुजिष्णुभम् ।
यद्यशो विधुधिकारि तुषाराद्रिविडम्बनम् ॥
जितपार्वणशीतांशु पराभूतभवाचलम् ।
निर्भत्सिततुषाराद्रि भाति भूप भवद्यशः ॥
 
-
 
इति श्रीजिनदत्तसूरिशिष्यपण्डित श्री मदमरचन्द्रविरचितायां काव्यकल्पलताकवि-
शिक्षावृत्तौ छन्दः सिद्धिप्रताने प्रथमेऽनुष्टुपशासनः स्तबकः प्रथमः ॥