This page has been fully proofread once and needs a second look.

प्रासादसौधकैलासमन्दारदुहिमाद्रयः
रम्भागर्भपारिजातलोध्रकङ्कोलपादपाः ॥ ६४ ॥
 
कार्पासकाशकर्पूरकरम्भो रजतं यशः ।
निर्मोकचोरडिण्डीरचन्दनं हसितं हिमम् ॥ ६५ ॥
 
दधिम्रक्षणचूर्णास्थिखटिकास्फटिकाभ्रकाः ।
रेणुः केतकखर्जूर्योः कटाक्षा वासभस्मनी ॥ ६६ ॥
 
मृणालपलिताम्भोदधारेन्दुकरचामराः ।
हारोर्णानाभतन्तूर्मिस्वर्दण्डेभरदा गुणाः ॥ ६७ ॥
 
सेराहशर्कराशालिदुग्धगङ्गासुधा जलम् ।
निर्झरः पारदो हंसवककैरवकम्बवः ॥ ६८ ॥
 
लतागृहं पुण्डरीककपालश्वेतकुम्भकाः ।
छत्रसिंहध्वजश्वेतगुञ्जशुक्तिकपर्दिकाः ॥ ६९ ॥
 
मुक्ताकुसुमनक्षत्रदन्तस्वेदाम्बुबिन्दवः ।
सूर्येन्दुकान्तकरकसिकताकणसीकराः ॥ ७० ॥
 
मालतीमल्लिकाकुन्दयूथिकाकुटजादयः ।
 
एते भारतीप्रभृतयोऽन्येऽपि श्वेतपदार्थाः परस्परमौचित्यादुपमानं क्रियन्ते । उप-
मानीकृतपदार्थस्य वर्णादयो गुणा उपमेये रोप्यन्ते । यथा--वर्ध्या भारती, तस्या उपमानं
गङ्गा, गङ्गायाः शुक्लो वर्णः, परिवारो हंसपद्मादि, आधारो धूर्जटिशिरः, क्रिया पाप-
हारित्वम् । ततो भारती कुन्देन्दुसुन्दरद्युतिः पद्मश्रिया हंससेविता शिवोत्तमाङ्गलालिता
गङ्गेव सेवकपापहारिणी जयति ।
 
यथा--वर्ण्यास्तारकास्तासामुपमानं मुक्तास्तासामाधारोऽब्धिस्ततो नभोम्भोधि-
मध्ये तारा मुक्ता इव ।
 
यथा--वर्ण्याः काशास्तेषामुपमानं हास्यं हास्यं च प्रियसङ्गतं भवति, ततो नव-
हंससमागमे शरद्वध्वा हासप्रकाशा इव काशाः ।
 
यथा--वयं हास्यं तस्योपमानं ज्योत्स्ना तस्या आधारश्चन्द्रस्ततो मुखचन्दस्य
ज्योत्स्नेव हास्यश्रीः ।
 
यथा--वर्ण्यं यशस्तस्योपमानं हास्यं हास्यस्य हर्षस्ततो रिपुजयहृष्टस्य नृपखड्गस्य
हास्यमिव यशः ।
 
यथा--वर्ण्यं यशस्तस्योपमानं कर्पूरः कर्पूराधारः समुद्गकः परिवारोऽङ्गारस्त-
<error>स्तस्तस्</error>
<fix>
त्रस्त</fix>त्रैलोक्योदरसमुद्गके यशः कर्पूरमिव तन्मध्ये नभोऽङ्गारलेशः ।
 
यथा--वर्ण्यास्तारास्तासामुपमानं पुष्पाणि तेषामाधारो लता ततस्तमोवल्ल्याः
पुष्पाणीव ताराः ।
 
यथा--वर्ज्यानि पुष्पाणि तेषामुपमानं स्वेदबिन्दवस्ते सात्त्विकभावाद्धर्माच्च भवन्ति,
ततो दक्षिणानिलस्य स्पर्शाद्भृङ्गस्पर्शाद्वसन्तस्पर्शाद्वा वल्लीनां स्वेदबिन्दव इव पुष्पाणि,