This page has been fully proofread once and needs a second look.

११८
 
अमरचन्द्रयतिकृता-

 
प्रासादसौधकैलासमन्दारदुहिमाद्रयः

रम्भागर्भपारिजातलोध्रकङ्कोलपादपाः ॥ ६४ ॥

 
कार्पासकाशकर्पूरकरम्भो रजतं यशः ।

निर्मोकचोरडिण्डीरचन्दनं हसितं हिमम् ॥ ६५ ॥
 
[ प्रतानः ४-

 

 
दधिम्म्रक्षणचूर्णास्थिखटिकास्फटिकाभ्रकाः

रेणु:णुः केतकखर्जूर्यो:योः कटाक्षा वासभस्मनी ॥ ६६ ॥

 
मृणालपलिताम्भोदधारेन्दुकरचामराः ।

हारोर्णानाभतन्तूर्मिस्वर्दण्डेभरदा गुणाः ॥ ६७ ॥

 
सेराहशर्कराशालिदुग्धगङ्गासुधा जलम् ।

निर्रः पारदो हंसवककैरवकम्बवः ॥ ६८ ॥

 
लतागृहं पुण्डरीककपालश्वेतकुम्भकाः ।

छत्रसिंहध्वजश्वेत गुञ्जशुक्तिकपर्दिकाः ॥ ६९ ॥

 
मुक्ताकुसुमनक्षत्रदन्तस्वेदाम्बुविबिन्दवः ।

सूर्येन्दुकान्तकर कसिकताकण लीसीकराः ॥ ७० ॥

 
मालतीमल्लिकाकुन्दयूथिकाकुटजादयः ।

 
एते भारतीप्रभृतयोऽन्येऽपि श्वेतपदार्थाः परस्परमौचित्यादुपमानं क्रियन्ते । उप-

मानीकृतपदार्थस्य वर्णादयो गुणा उपमेये रोप्यन्ते । यथा--वर्ध्या भारती, तस्या उपमानं

गङ्गा, गङ्गायाः शुक्लो वर्णः, परिवारो हंसपद्मादि, आधारो धूर्जटिशिरः, क्रिया पाप-

हारित्वम् । ततो भारती कुन्देन्दुसुन्दरद्युतिः पद्मश्रिया हंससेविता शिवोत्तमाङ्गलालिता

गङ्गे सेवकृपापहारिणी जयति ।
 
M
 

 
यथा - --वर्ण्यास्तारकास्ता सामुपमानं मुक्तास्तासामाधारोऽब्धिस्ततो नभोम्भोधि-

मध्ये तारा मुकाक्ता इव ।
 

 
यथा--वर्ण्याः काशास्तेषामुपमानं हास्यं हास्यं च प्रियसङ्गतं भवति, ततो नव-

हंससमागमे शरद्वध्वा हासप्रकाशा इ काशा: ।
 
शाः ।
 
यथा--वयं हास्यं तस्योपमानं ज्योत्स्ना तस्या आधारश्चन्द्रस्ततो मुखचन्दस्य

ज्योत्स्नेव हास्यश्रीः ।
 

 
यथा--वर्ण्यं यशस्तस्योपमानं हास्यं हास्यस्य हर्षस्ततो रिपुजयहृष्टस्य नृपखस्य
ड्गस्य
हास्यमिव यशः ।
 

 
यथा--वर्ण्यं यशस्तस्योपमानं कर्पूरः कर्पूराधारः समुद्रक :गकः परिवारोऽङ्गारस्त-
तस्मै

त्रस्तत्रै
लोक्योदरसमुद्के यशः कर्पूरमिव तन्मध्ये नभोऽङ्गारलेशः ।
 
-
 

 
यथा- त्र-वर्ण्यास्तारास्तासामुपमानं पुष्पाणि तेषामाधारो लता ततस्तमोवळ्ल्ल्याः

पुष्पाणीव तारा: ।
 
राः ।
 
यथा - --वर्ज्यानि पुष्पाणि तेषामुपमानं स्वेबिन्दवस्ते सात्त्विकभावाद्धर्माच्च भवन्ति,

ततो दक्षिणा निलस्य स्पर्शादृद्भृङ्गस्पर्शाद्वसन्त स्पर्शाद्वा वल्लीनां स्वेदबिन्दव इव पुष्पाणि,