2023-04-12 04:24:50 by ambuda-bot
This page has not been fully proofread.
११८
अमरचन्द्रयतिकृता-
।
प्रासादसौधकैलासमन्दारदुहिमाद्रयः
रम्भागर्भपारिजातलोध्रकङ्कोलपादपाः ॥ ६४ ॥
कार्पासकाशकर्पूरकरम्भो रजतं यशः ।
निर्मोकचोरडिण्डीरचन्दनं हसितं हिमम् ॥ ६५ ॥
[ प्रतानः ४-
।
दधिम्म्रक्षणचूर्णास्थिखटिकास्फटिकाभ्रकाः
रेणु: केतकखर्जूर्यो: कटाक्षा वासभस्मनी ॥ ६६ ॥
मृणालपलिताम्भोदधारेन्दुकरचामराः ।
हारोर्णानाभतन्तूमिस्वर्दण्डेभरदा गुणाः ॥ ६७ ॥
सेराहशर्कराशालिदुग्धगङ्गासुधा जलम् ।
निर्भरः पारदो हंसवककैरवकम्बवः ॥ ६८ ॥
लतागृहं पुण्डरीककपालश्वेतकुम्भकाः ।
छत्रसिंहध्वजश्वेत गुञ्जशुक्तिकपर्दिकाः ॥ ६९ ॥
मुक्ताकुसुमनक्षत्रदन्तस्वेदाम्बुविन्दवः ।
सूर्येन्दुकान्तकर कसिकताकण लीकराः ॥ ७० ॥
मालतीमल्लिकाकुन्दयूथिकाकुटजादयः ।
एते भारतीप्रभृतयोऽन्येऽपि श्वेतपदार्थाः परस्परमौचित्यादुपमानं क्रियन्ते । उप-
मानीकृतपदार्थस्य वर्णादयो गुणा उपमेये रोप्यन्ते । यथा-वर्ध्या भारती, तस्या उपमानं
गङ्गा, गङ्गायाः शुक्लो वर्णः, परिवारो हंसपद्मादि, आधारो धूर्जटिशिरः, क्रिया पाप-
हारित्वम् । ततो भारती कुन्देन्दुसुन्दरद्युतिः पद्मश्रिया हंससेविता शिवोत्तमाङ्गलालिता
गङ्गेच सेवकृपापहारिणी जयति ।
M
यथा - वर्ण्यास्तारकास्ता सामुपमानं मुक्तास्तासामाधारोऽब्धिस्ततो नभोम्भोधि-
मध्ये तारा मुका इव ।
यथा-वर्ण्याः काशास्तेषामुपमानं हास्यं हास्यं च प्रियसङ्गतं भवति, ततो नव-
हंससमागमे शरध्वा हासप्रकाशा इच काशा: ।
यथा-वयं हास्यं तस्योपमानं ज्योत्स्ना तस्या आधारश्चन्द्रस्ततो मुखचन्दस्य
ज्योत्स्नेव हास्यश्रीः ।
यथा-वयं यशस्तस्योपमानं हास्यं हास्यस्य हर्षस्ततो रिपुजयहृस्य नृपखस्य
हास्यमिव यशः ।
यथा-वर्ण्य यशस्तस्योपमानं कर्पूरः कर्पूराधारः समुद्रक : परिवारोऽङ्गारस्त-
तस्मैलोक्योदरसमुद्रके यशः कर्पूरमिव तन्मध्ये नभोऽङ्गारलेशः ।
-
यथा- त्रस्तारास्तासामुपमानं पुष्पाणि तेषामाधारो लता ततस्तमोवळ्याः
पुष्पाणीव तारा: ।
यथा - वर्ज्यानि पुष्पाणि तेषामुपमानं स्वेवबिन्दवस्ते सात्त्विकभावाद्धर्माच्च भवन्ति,
ततो दक्षिणा निलस्य स्पर्शादृस्पर्शाद्वसन्त स्पर्शाद्वा वल्लीनां स्वेदबिन्दव इव पुष्पाणि,