We're performing server updates until 1 November. Learn more.

This page has been fully proofread once and needs a second look.

स्तबक: २ ]
 
काव्य
आधारादीनामपि सादृश्यास्त्वन्तरैः सह शत्रुत्वं मित्रत्वं च कल्पलतावृत्तिःनीयम्
 
आधारादीनामपि सादृश्यास्त्वन्तरैः सह शत्रुत्वं मित्रत्वं च कल्पनीयम् ।

इत्यादिशब्दाद्वर्ण्यवर्णादिद्वेषिमित्राणां द्वेषिमित्रादि ।
 

 
तथा
-
 
तथा
- वर्ण्यस्य शिशिरत्वमुष्णत्वं मधुरत्वं कटुत्वं सुगन्धत्वं मुसुरूपत्वं मधुरध्वनित्वं

सूक्ष्मत्वमित्यादयोऽन्येऽपि भावा वर्ण्य वस्तूनि विविधार्थानामुत्पत्त्यर्थं बीजरूपा जायन्ते ।

यथा-वर्थ्-वर्ण्यो रविस्तस्य पोतो वर्णः, आकारो वृत्तः, क्रिया:याः प्रकाशनरूपाद्याः, आधारो

नभः, आधेयं हस्तकमलादि, सम्बन्धिनो ब्रह्माकाश्यपशनियमुनाद्याः, बन्धवोऽपरे

सूर्याः, सम्पर्किणो रथो रथ्याऽरुणवालखिल्यादयः, द्वेषिणो राहुशुक्रशनयो ध्वान्तदैत्याश्च,

मित्राणि चन्द्रमङ्गलगुरवः, कमलचक्रकाद्याश्च वा, रविरेव प्रभाकमलिन्योः पतिः, पत्न्यः

प्रभाकमलिनीरत्नादेव्यः, ईशः पितामहत्वात् ब्रह्मा, सेवका भाविनः, इन्द्रियानन्दप्रदा

मित्राद्याः, शोभाप्रदा दिवसाद्याः, इन्द्रियानन्दहरा विपक्षाद्याः, तथा वर्ण्यस्य खंरवे-

र्
वर्णस्य द्विषो मित्राणि, सदृग्वर्णानि आकारस्य द्विषो मित्राणि सदृगाकाराणि, मित्रस्य

कमलस्य द्विषश्चन्द्राद्याः, मित्राणि चक्राद्याः, सम्पर्किणो हंसाचाद्याः, आधारो जलम्,

आधेयं भृङ्गाद्याः । एवं परस्परमेकैकस्य भावस्य यथासंभवमपरे भावा निरीक्ष्याः ।

एवं कमलमित्रद्वेषिणश्चन्द्रादेरपि वर्णादीनि विलोक्यानि ॥
 

 
वर्णादिकाना मेकेन द्वाभ्यां वा व्त्र्यादिकैरथ ।

सुधीरुत्पादयेदर्थमौचित्याद्वर्ण्यवस्तुनि ॥ ५६॥
 
९ ॥
 
वर्ण्यवस्तुनो वर्ज्याकारादीनां मध्यादेकेन केनापि काभ्याञ्चिद् द्वाभ्यां वा कैश्चित्

त्रिभिश्चतुर्भिः पञ्चभिर्वा भावैरर्थः पूर्णतां नेयः ॥
 

 
वर्णाकारक्रियामुख्यैः सदृशं वस्तु वस्तुनि ।

संयोजयेद्यथौचित्यमुपमारूपकादिभिः ॥ ६० ॥
 

 
वर्ण्यवस्तुनि शुक्लादौ शुक्लादि, चतुरस्रादौ चतुरखास्रादि, कम्पनादौ नर्त्तनादि-

इत्यादि सदृशान् भावानुपमया रूपकेण वा अलङ्कारान्त रैर्वा योजयेत् ॥
 

 
वर्णादिभिरुपमानीकृतवस्तुप्रथितवर्णमुख्य गुणाः ।

उपमेये सादृश्यात् श्लेषादौचित्यतो योज्याः ॥ ६१ ॥
 
>
 
-
 

 
श्वेतादीनां श्वेतादयः, चतुरस्त्रादीनां चतुरस्त्रादयः, आधार परिवारादीनाम् आधार
-
परिवारादयः औचित्यादुपमानं क्रियन्ते । उपमानीकृतवस्तुनो वर्णादया गुणाः

सादृश्येन श्लेषेण वा उपमेये रोप्यन्ते ॥
 

 
पूर्वं वर्णेभ्यस्तत्रापि शुक्कुवर्णादर्थोत्पत्तये शुक्लपदार्थोपसङ्ग्रहो यथा-
-
 
शुभ्राणि भारतीधर्मशेषेशवरुणेन्दवः ।

चन्द्रप्रभ सुविध्याख्यौ जिनेन्द्रौ बलनारदौ ॥ ६१ ॥ ॥

 
ब्राह्मणानां वर्णो धर्मः पितरश्च कृताच्युतः ।

सत्त्वं कृतयुगं शान्तहास्यवीररसास्तथा ॥ ६२ ॥

 
शुक्लध्यानं शुक्ललेश्या पुराण्यं सिद्धिशिलोशनाः ।

चन्द्रश्चो च्चैःश्रवः शक्रजगज्ज्योत्स्त्रानाशरनाः ॥ ६३ ॥