We're performing server updates until 1 November. Learn more.

This page has not been fully proofread.

अमरचन्द्रयतिकृता-
औचित्यदुमकान्तारं भूमिपालो विराजते ।
शौर्यसिंह परिक्रीडाध्वस्तवैरिमतङ्गजः ॥
धैर्यदन्तावलक्रीडा विन्ध्यविश्वम्भराधरः
सत्कीर्तिनर्मंदापूरसुतक्षोणीतलो नृपः ॥
कलाकलोलिनीशैलः सैप राजा विराजते ।
महोमहौषधिज्वालाजालजीर्णा द्विषत्तमाः ॥
अथ भिन्नरूपऋविधिः । यथा -
 
यद्दोनकासारसमुद्भवानि भृशं यशः कैरवमण्डलानि ।
गुणावलीकेसरभाठराणि श्रितान्यहो याचकचञ्चरीकैः ॥
सङ्ग्रामपाथोनिधिसम्भवेन भवद्यशः कैरविणीधचेन
लोलापरिस्मेरितदिङ्मुखेन म्लानानि विद्वेषिमुखाम्बुजानि ॥
शेषानलङ्कारान् मत्कृतात् अलङ्कारप्रबोधादवबुध्याऽभ्यसेत् ॥
इति श्रीजिनदत्तसू० काव्यकल्पलतावृत्तौ चतुर्थे अर्थसिद्धि प्रताने.
डलङ्काराभ्यासस्तबकः प्रथमः ॥
 
११६
 
मथार्थोत्पत्तिप्रकाराः प्रकाशयन्ते -
 
[ प्रतानः ४-
वर्णाकारक्रियाधाराधेय सम्बन्धिबन्धवः ।
सम्पर्किद्वेषिमित्राणि पतिपत्नीशसेवकाः ॥ ५७ ॥
इन्द्रियानन्दभूत्यादिप्रदं तद्पहारि च ।
एषामप्यरिमित्रादीत्यादि वर्ण्यऽर्थबीजकम् ॥ ५८ ॥
 
सर्वेषामेव वस्तूनामेते वर्णादयो भावा एको द्वौ त्र्यादयो वा निश्चिताः । वर्णः
शुक्रादिः, आकारश्चतुरस्त्रादिः, क्रियाश्चलनादिकाः, अधारो वृक्षादेः पृथिव्यादिः, आधेयं
पृथिव्यादवृक्षादि, सम्बन्धिनः पितृपुत्रादयः बन्धवो भ्रातरः, सम्पर्किण: पाश्र्वस्थाः,
द्वेषिणो रिपवः, मित्राणि सुहृदः, पतिर्वरयिता, पत्नी भार्या, ईशः स्वामी, सेवका
आराधकाः, इन्द्रियानन्दप्रदमेकस्य चक्षुरादेः सर्वेषामिन्द्रियाणां प्रीतिप्रदम् भूत्यादि-
प्रदं लक्ष्मीवस्त्रस्थानतेजःप्रभृतिप्रदं तद्पहारि इन्द्रियानन्दापहारकं भूत्याद्यपहारकं च ।
 
,
 
-
 
तथा – एषां वर्णादीनामपि यथासंभवं ये रिपत्रो मित्रादयस्तेऽपि यथा वर्णाकार-
क्रियाणां साहश्यादेव वस्त्वन्तराणि द्विषो मित्राणि च ।
 
तथा - आधारस्य द्विषो मित्राणि, आधेयस्य द्विषो मित्राणि, सम्बन्धिनां द्विषो
मित्राणि, बन्धूनां द्विषो मित्राणि, सम्पर्किणां द्विषो मित्राणि, द्वेषिणां द्विषो
मित्राणि, पत्युद्विषो मित्राणि, पत्न्या द्विषो मित्राणि, स्वामिनां द्विषो मित्राणि,
सेवकानां द्विषो मित्राणि, इन्द्रियानन्ददायिनां द्विषो मित्राणि भूत्याद्यपहारिणां
द्विवो मित्राणि ।