This page has been fully proofread once and needs a second look.

स्प्रतापबक: १ ]
 
काव्यकल्पलतावृत्तिः ।
 
प्रतापत
पनोद्योति
गुरुशौर्यनभोङ्गणः ।

विक्रीडत्कोर्तिशीतांशोः तारदानपयोनिधिः ॥
 

 
देवभक्तिमरुत्कुल्या पूर्ण मानससागरः ।

धैर्य हर्यक्षवर्य श्री विलसद्गुणकाननः ॥

 
गुणमुक्ताङ्गण श्रेष्ठ विवेकतटिनीपतिः ।

कलाठर सुरनदीरम्यरूफारधैर्यहिमाचलः ॥
 

 
इदमेव द्विपङ्क्त्याधाररूपकं वैपरीत्येन द्विपड्ङ्क्त्याधेयरूपकं भवति । यथा -
 
-
 
प्रतिज्ञावाहिनीपुरक्रीडद्गुणसितच्छदः ।

अहङ्कारमहाहस्तिक्रीडत्कीर्तिध्वजाञ्चलः ॥

 
दानपाथोनिधिक्रीडद्यशोमुक्तासमुच्चयः ।

धैर्य विन्ध्याचलोत्सङ्गरङ्गत्सत्कीतिनर्मदः ॥

 
गुरुशौर्याम्बरक्रोडक्रीडत्तेजोदिवाकरः ।

दानरत्नाकर
क्रोडविक्रीडत्कीर्तिचन्द्रमाः ॥

 
स्वान्ताम्बुधिविशद्देवभक्तिदेवनदीरयः ।

गुणकाननविक्रीडत्तारधैर्यमृगाधिपः ॥

विवेकाम्बुधिविक्रीडद्गुणमुक्तासमुच्चयः ।

धैर्यशैलपरिक्रीडत्कीर्तिगङ्गारयो नृपः ॥
 

 
अथ त्रिपङ्किक्तिमिश्ररूपकम् । यथा -
 
इदं परीत्येन
-

 
सन्धासिन्धुयशोऽम्भोजक्रीडद्गुणसितच्छदः ।
 

 
इदं वैपरीत्येन--
 
गुणहंसमनोहारिसन्धासिन्धुयशोऽम्बुजः ।

शौर्यशैलमहोदावदग्धवैरिमहीरुहः ।

वैरिभूरुहविद्रोहिशौर्यशैलमहानलः ॥

 
कलावल्लीयशःपुष्पक्रीडद्गुणमधुव्रतः ।

गुणद्विरे फरोचिष्णुकलावल्लीयशः शमः ॥

 
शमसिन्धुयशोनीरक्क्रीडद्द्वरीडद्गुणसरोरुहः ।

गुणपङ्के रुह भ्राजिशमसिन्धुयशो जलः ॥

 
सदौचितीलताकीर्तिः पुष्पोद्यद्गुणषट्पदः ।

गुणभृङ्गभृतौचित्यवृक्षकीर्तिप्रसूनकः ॥

 
अथ रूपक निर्वाह विधिः । यथा --
 

 
प्रतिज्ञाचन्द्रिका
चन्द्रः शोभते भूमिवल्लभः ।

यदालोकनमात्रेण म्लानं वैरिमुखाम्बुजैः ॥

 
मानमातङ्गविन्ध्याद्विरिरेष क्ष्मापालपुङ्गवः ।

कीर्तिर्विजृम्भते यस्य नर्मदाशर्मदायिनी ॥