This page has not been fully proofread.

स्तबक: १ ]
 
काव्यकल्पलतावृत्तिः ।
 
प्रतापतपनोयोति
गुरुशौर्यनभोङ्गणः ।
विक्रीडत्कोर्तिशीतांशोः तारदानपयोनिधिः ॥
 
देवभक्तिमरुत्कुल्या पूर्ण मानससागरः ।
धैर्य हर्यक्षवर्य श्री विलसद्गुणकाननः ॥
गुणमुक्ताङ्गण श्रेष्ठ विवेकतटिनीपतिः ।
कलाठर नदीरम्यरूफारधैर्यहिमाचलः ॥
 
इदमेव द्विपङ्याधाररूपकं वैपरीत्येन द्विपड्याधेयरूपकं भवति । यथा -
 
प्रतिज्ञावाहिनीपुरक्रीडद्गुणसितच्छदः ।
अहङ्कारमहाहस्तिक्रीडत्कीर्तिध्वजाञ्चलः ॥
दानपाथोनिधिक्रीडद्यशोमुक्तासमुच्चयः ।
धैर्य विन्ध्याचलोत्सङ्गरङ्गत्सत्कीतिनर्मदः ॥
गुरुशौर्याम्बरक्रोडक्रीडत्तेजोदिवाकरः ।
दानरत्नाकर
क्रोडविक्रीडत्कीर्तिचन्द्रमाः ॥
स्वान्ताम्बुधिविशद्देवभक्तिदेवनदीरयः ।
गुणकाननविक्रीडत्तारधैर्यमृगाधिपः ॥
विवेकाम्बुधिविक्रीडद्गुणमुक्तासमुच्चयः ।
धैर्यशैलपरिक्रीडत्कीर्तिगङ्गारयो नृपः ॥
 
अथ त्रिपङ्किमिश्ररूपकम् । यथा -
 
इदं परीत्येन-
सन्धासिन्धुयशोऽम्भोजक्रीडद्गुणसितच्छदः ।
 
गुणहंसमनोहारिसन्धासिन्धुयशोऽम्बुजः ।
शौर्यशैलमहोदावदग्धवैरिमहीरुहः ।
वैरिभूरुहविद्रोहिशौर्यशैलमहानलः ॥
कलावल्लीयशःपुष्पक्रीडद्गुणमधुवतः ।
गुणद्विरे फरोचिष्णुकलावल्लीयशः शमः ॥
शमसिन्धुयशोनीरक्क्रीडद्द्वणसरोरुहः ।
गुणपङ्के रुह भ्राजिशमसिन्धुयशोजलः ॥
सदौचितीलताकीर्तिः पुष्पोद्यगुणषट्पदः ।
गुणभृङ्गभृतौचित्यवृक्षकीर्तिप्रसूनकः ॥
अथ रूपक निर्वाह विधिः । यथा --
 
प्रतिज्ञाचन्द्रिका
चन्द्रः शोभते भूमिवल्लभः ।
यदालोकनमात्रेण म्लानं वैरिमुखाम्बुजैः ॥
मानमातङ्गविन्ध्याद्विरेष क्षमापालपुङ्गवः ।
कीर्तिर्विजृम्भते यस्य नर्मदाशर्मदायिनी ॥