This page has been fully proofread once and needs a second look.

काव्यकल्पलतावृत्तिः ।
 
अथाऽऽरोपार्हा गुणाः-
-
 
सन्धाहंकृतिशौर्यसाहसमतो धीरत्वशक्तिश्रियो

विद्यादानशरण्यवाक्शमकलासत्यौचितोभक्तयः ।

न्यायस्थैर्यविवेककीर्तिविनयप्रज्ञा प्रतिष्ठादया-
झा
-
ज्ञा
लावण्यसुहृद्गभीरगुरुतासौभाग्यशोभोद्यमाः ॥ ५१
 
स्तबकः १ ]
 
-
 

 
विचाराचारसन्तोषज्ञानधर्मनयक्षमाः ।

सौजन्यौदार्य वैराग्यब्रह्मचर्य गुरु राणार्जवाः ॥ ५२ ॥

 
उपकारेन्द्रियाण्य स्त्रीविरतित्यागसंयमाः ।

सौम्यमार्दवशौचत्वसत्वानि विषयोजनम् ॥ ५३ ॥

 
एते सन्धादयो गुणा राजादेर्यथौचित्यं वर्ण्यन्ते ॥

 
अथ दोषाः-
-
 
मायाभीदम्भ दुष्कर्मलोभशोकमदत्क्रुधः ।

रागसंसारदौर्जन्य प्रमादाज्ञानमन्मथाः ॥ ५४ ॥
 

 
एते मायादिका दोषा नीचजनस्य भेद्यरूपकेन उत्तमस्था अपि औचित्येन

स्थाप्यन्ते । पूर्वोक्ताः सन्धादिका गुणा अपि वैपरीत्येन दोषा भवन्ति ॥
 

 
अथ रोप्याः शब्दाः पुन्नपुंसकलिङ्गपदार्था:-
थाः--
 
चैत्याङ्गवृक्षगजमेघमृगाङ्कभाजं
 
-
 

व्योमाग्निसिन्धुहरिदीपकरत्नकुम्भाः ।
 

चक्राङ्गचातकचकोरमयूरचक्र-
पुंस्कोकिला वनसरोऽम्बुजमन्दिराणि ॥ ५५
 
चक्राङ्गचातकचकोरमयूरचक्र-

 
अथ स्त्रीलिङ्गशब्दा रोप्या :-
र्हाः--
 
ज्योत्स्ना नदी विधुकला सरसी पताका
 
११३
 

वल्ली वनी कमलिनी दयिता सुधा श्रीः ।

कादम्बिनी सुरभिवृष्टिसुरात्रिमुक्ता-

ताराकरेणुकलिकालहरीकदल्यः ॥ ५६ ॥
 

 
एतैः : काव्यद्वयपदार्थैरन्यैरपि पूर्वोक्तसन्धाहंकृत्यादिकाव्यचतुष्टयोक्ता अन्येऽपि गुणा

दोषाश्च नपुंसका नपुंसकैः पुंलिङ्गाः पुंलिःलिङ्गैः, स्त्रीलिङ्गःगैः, स्त्रीलिङ्गाः यथौचित्यं भेद्यादि-

रूपकचतुष्टयविधिना योज्याः । भेद्यं यथा - --कोपपावकपर्जन्यः । तोष्यं यथा-
-
विवेकाम्भोजभास्करः । आधारो यथा - --गुणरत्नपयोराशिः । आधेयं यथा-
-गुणा-

म्बरनिशाकरः ।
 
-
 
-
 

 
नपुंसकलिङ्ग पुंलिङ्गशब्दाः शौर्यशमादयः स्त्रीलिङ्गा रोप्या भवन्ति । यथा -
 
--
 
शौर्य लक्ष्मीलताभेद्यः श्रमश्री कौमुदीविधुः ।
 

महः शोभाब्जिनीसूर्यो दानस्थितिष्ठसुधाम्बुधिः ॥
 
·
 

 
स्त्रीलिङ्गशब्दाः सन्धाहंकृतिप्रभृतयः पुरःस्थितैः प्रपञ्चविस्तारप्रसरप्रायशब्दैर्नपुंसक-

 
१५ का० क०