This page has not been fully proofread.

काव्यकल्पलतावृत्तिः ।
 
अथाऽऽरोपार्हा गुणाः-
सन्धाहंकृतिशौर्यसाहसमतो धीरत्वशक्तिश्रियो
विद्यादानशरण्यवाक्शमकलासत्यौचितोभक्तयः ।
न्यायस्थैर्यविवेककीर्तिविनयप्रज्ञा प्रतिष्ठादया-
झालावण्यसुहृद्गभीरगुरुतासौभाग्यशोभोद्यमाः ॥५१॥
 
स्तबकः १ ]
 
-
 
विचाराचारसन्तोषज्ञानधर्मनयक्षमाः ।
सौजन्यौदार्य वैराग्यब्रह्मचर्य गुरु रार्जवाः ॥ ५२ ॥
उपकारेन्द्रियाण्य स्त्रीविरतित्यागसंयमाः ।
सौम्यमार्दवशौचत्वसत्वानि विषयोजनम् ॥ ५३ ॥
एते सन्धादयो गुणा राजादेर्यथौचित्यं वर्ण्यन्ते ॥
अथ दोषाः-
मायाभीदम्भ दुष्कर्मलोभशोकमदत्रुधः ।
रागसंसारदौर्जन्य प्रमादाज्ञानमन्मथाः ॥ ५४ ॥
 
एते मायादिका दोषा नीचजनस्य भेद्यरूपकेन उत्तमस्था अपि औचित्येन
स्थाप्यन्ते । पूर्वोक्ताः सन्धादिका गुणा अपि वैपरीत्येन दोषा भवन्ति ॥
 
अथ रोप्याः शब्दाः पुन्नपुंसकलिङ्गपदार्था:-
चैत्याङ्गवृक्षगजमेघमृगाङ्कभाजं
 
-
 
व्योमाग्निसिन्धुहरिदीपकरत्नकुम्भाः ।
 
पुंस्कोकिला वनसरोऽम्बुजमन्दिराणि ॥५५॥
 
चक्राङ्गचातकचकोरमयूरचक्र-
अथ स्त्रीलिङ्गशब्दा रोप्या :-
ज्योत्स्ना नदी विधुकला सरसी पताका
 
११३
 
वल्ली वनी कमलिनी दयिता सुधा श्रीः ।
कादम्बिनी सुरभिवृष्टिसुरात्रिमुक्ता-
ताराकरेणुकलिकालहरीकदल्यः ॥ ५६ ॥
 
एतैः : काव्यद्वयपदार्थैरन्यैरपि पूर्वोक्तसन्धाहंकृत्यादिकाव्यचतुष्टयोक्ता अन्येऽपि गुणा
दोषाश्च नपुंसका नपुंसकैः पुंलिङ्गाः पुंलिः, स्त्रीलिङ्गः स्त्रीलिङ्गाः यथौचित्यं भेद्यादि-
रूपकचतुष्टयविधिना योज्याः । भेद्यं यथा - कोपपावकपर्जन्यः । तोष्यं यथा-
विवेकाम्भोजभास्करः । आधारो यथा - गुणरत्नपयोराशिः । आधेयं यथा-
गुणा-
म्बरनिशाकरः ।
 
-
 
-
 
नपुंसकलिङ्ग पुंलिङ्गशब्दाः शौर्यशमादयः स्त्रीलिङ्गा रोप्या भवन्ति । यथा -
 
शौर्य लक्ष्मीलताभेद्यः श्रमश्री कौमुदीविधुः ।
 
महः शोभाब्जिनीसूर्यो दानस्थितिष्ठधाम्बुधिः ॥
 
·
 
स्त्रीलिङ्गशब्दाः सन्धाहंकृतिप्रभृतयः पुरःस्थितैः प्रपञ्चविस्तारप्रसरप्रायशब्दैर्नपुंसक-
१५ का० क०