This page has been fully proofread once and needs a second look.

११२
 
अमरचन्द्रपतिकृता-
प्रतापजितमार्तण्डो राजते पृथिवीपतिः ॥
 
आधेर्

 
आधे
यं रूपकं यथा-
-
 
[ प्रतानः ४-
-
 
सिंहरत्नसरोऽम्भोजचन्द्रोदित्यद्रुमादयः ।

स्वाधारै रूपकप्रोक्तः
 
-
 
तैः
 
वनपर्वतगुहादीनां सिंह आधेयम्, यथा--कुलकाननसिंहोऽयम् - --इत्यादिकं ज्ञेयम् ।

समुद्रताम्रपर्णीरोहणाद्रिप्रभृतीनां रत्नमाधेयम्, यथा--कुलाम्भोनिधिमाणिक्यम् । भूपर्व-

तारण्यादीनां सर आधेयम्, यथा- -भवारण्ये सुधासरः ।
 

 
वंशपर्वतपीयूषसरोवरमयं नृपः ।
 

भूरि स्फुरति संसारमरुभूरिखधारसः ॥ इत्यादि ।
 

 
नदीसरः प्रभृतीनां जलस्थानानामम्भोजमाधेयम् नीतिस्रोतस्विनीपद्मम्, राजा

राज्यसरोऽम्बुजम् इत्यादि । नभोब्धिशिवभालानां चन्द्र आधेयम्, यथा-कुलाकाशे

निशानाथो, ज्ञानाब्धौ हिमदीधितिः । इत्यादि । आकाशस्य रविराधेयम् ।

मही पालकुलाकाशप्रकाशन दिनेश्वरः, इत्यादि । धराद्विरिवनादीनां वृक्ष आधे-

यम्, यथा--संसारभूमिकल्पद्रुः, कुलाद्रौ देवपादपः, राज्यारामरसालदुः- द्रुः--इत्यादि ।

 
आधेयं केवलैः क्वचित् ॥ ५० ॥
 

 
मौले:लेः किरीटमाल्यमाणिक्यतिलकादय आधेयम् । अत्र केवलेन मौलिना रूपक.
-
रहितेन आधेयं कोटीरादि रूपकं भवति । यथा- -भूपालमौलिकोटीरमाल्यमाणिक्यम्-

इति, तथा कुलतिलक इति । वृक्षस्य लतायाश्च पत्रपुष्पफलशाखामूलकन्दपक्षिजाति-

प्रभृतय आधेयम् । पर्वतस्य नदीवृक्षरत्नमृगसिंह पुलिन्दगजकिन्नरादय आधेयम् ।

नद्याः पद्मभ्रमरहंसचक्रवाक मत्स्यादय आधेयम् । समुद्रस्य चन्द्रनुसुधावडवाग्निरत्नशङ्क-
ख-
श्रीमुक्तातरङ्गश्रीमत्स्यविद्रुमफेनविष्णुविषादय आधेचम् । चन्द्रस्य ज्योत्स्नाकला-

कलङ्कादय आधेयम् । आदित्यस्य तापकिरणादि आधेयम् । आकांकाशस्य चन्द्रार्कतारा-

गङ्गाप्रभृतय आधेयम् । पातालस्य गङ्गानागदै त्यहट्टकेश्वरतमःसृघासुधाकुण्डादय

आधेयम् । स्वर्गस्य देवेन्द्रविमान कल्पद्रुनन्दनवनगङ्गामन्दारपारिजातकहरिचन्दन-

सन्तानकादय आधेयम् । मेरोर्देवस्वर्गकामधेनुचिन्तामणिमन्दारप्रभृतय आधेयम् ।

कामिन्याः सीमन्तकुङ्गुमस्तबलकलीला कमला दर्श कुण्डलकङ्कणकेयू रहारमओोञ्जीरस्मित कटा.
-
क्षधम्मिलवेणीकुचमुखकरचक्षुर्नासादय आधेयम् । वनस्य सरसीवापिकाहंसचक्रवाक-

वृक्षपर्वत भ्रमरगजसिंहसहकारादिवृक्षपुष्पस्तत्रक बकपुलिन्दकतस्करमृगादय आधेयम् I

गजस्य आदर्शसिन्दूरभूषणाङ्कुशवरत्रागुडिकोष्टक पताकायोधमुखपटकर ङ्ककुकुम्भस्थल-

दन्तकर्णपादादद्य<error>द्य</error><fix>य</fix> आधेयम् । मण्डपस्य कुम्भलतास्तम्भचन्द्रोदयचन्दनमालामुकाव क्तावचूल-

पुष्पप्रकरादय आधेयम् । विन्ध्यस्य गजनर्मंदादय आधेयम् । हिमाचलस्य गङ्गाहिम-

कस्तूरिकामृगदेवदारु किन्नरौषधिचामरप्रभृतय आधेयम् । मलयाद्रेश्चन्दनदक्षिणानिलादय

आधेयम् । रोहणस्य रत्नाचाद्याधेयम् । कैलास्य शिवगौरीमानसनदादय आधेयम् ।

गृहस्य स्तम्भकपाटद्वारादय आधेयम् ॥
 
M