This page has not been fully proofread.

११२
 
अमरचन्द्रपतिकृता-
प्रतापजितमार्तण्डो राजते पृथिवीपतिः ॥
 
आधेर्यं रूपकं यथा-
-
 
[ प्रतानः ४-
सिंहरत्नसरोऽम्भोजचन्द्रोदित्यद्रुमादयः ।
स्वाधारै रूपकप्रोक्तः
 
-
 
वनपर्वतगुहादीनां सिंह आधेयम्, यथा-कुलकाननसिंहोऽयम् - इत्यादिकं ज्ञेयम् ।
समुद्रताम्रपर्णीरोहणाद्रिप्रभृतीनां रत्नमाधेयम्, यथा-कुलाम्भोनिधिमाणिक्यम् । भूपर्व-
तारण्यादीनां सर आधेयम्, यथा- भवारण्ये सुधासरः ।
 
वंशपर्वतपीयूषसरोवरमयं नृपः ।
 
भूरि स्फुरति संसारमरुभूरिखधारसः ॥ इत्यादि ।
 
नदीसरः प्रभृतीनां जलस्थानानामम्भोजमाधेयम् नीतिस्रोतस्विनीपद्मम्, राजा
राज्यसरोऽम्बुजम् इत्यादि । नभोब्धिशिवभालानां चन्द्र आधेयम्, यथा-कुलाकाशे
निशानाथो, ज्ञानाब्धौ हिमदीधितिः । इत्यादि । आकाशस्य रविराधेयम् ।
मही पालकुलाकाशप्रकाशन दिनेश्वरः, इत्यादि । धराद्विवनादीनां वृक्ष आधे-
यम्, यथा-संसारभूमिकल्पद्रुः, कुलाद्रौ देवपादपः, राज्यारामरसालदुः- इत्यादि ।
आधेयं केवलैः क्वचित् ॥ ५० ॥
 
मौले: किरीटमाल्यमाणिक्यतिलकादय आधेयम् । अत्र केवलेन मौलिना रूपक.
रहितेन आधेयं कोटीरादि रूपकं भवति । यथा- भूपालमौलिकोटीरमाल्यमाणिक्यम्-
इति, तथा कुलतिलक इति । वृक्षस्य लतायाश्च पत्रपुष्पफलशाखामूलकन्दपक्षिजाति-
प्रभृतय आधेयम् । पर्वतस्य नदीवृक्षरत्नमृगसिंह पुलिन्दगजकिन्नरादय आधेयम् ।
नद्याः पद्मभ्रमरहंसचक्रवाक मत्स्यादय आधेयम् । समुद्रस्य चन्द्रनुधावडवाग्निरत्नशङ्क-
श्रीमुक्तातरङ्गश्रीमत्स्यविद्रुमफेनविष्णुविषादय आधेचम् । चन्द्रस्य ज्योत्स्नाकला-
कलङ्कादय आधेयम् । आदित्यस्य तापकिरणादि आधेयम् । आकांशस्य चन्द्रार्कतारा-
गङ्गाप्रभृतय आधेयम् । पातालस्य गङ्गानागदै त्यहट्टकेश्वरतमःसृघाकुण्डादय
आधेयम् । स्वर्गस्य देवेन्द्रविमान कल्पद्रुनन्दनवनगङ्गामन्दारपारिजातकहरिचन्दन-
सन्तानकादय आधेयम् । मेरोदेवस्वर्गकामधेनुचिन्तामणिमन्दारप्रभृतय आधेयम् ।
कामिन्याः सीमन्तकुङ्गुमस्तबलकलीला कमला दर्श कुण्डलकङ्कणकेयू रहारमओोरस्मित कटा.
क्षधम्मिलवेणीकुचमुखकरचक्षुर्नासादय आधेयम् । वनस्य सरसीवापिकाहंसचक्रवाक-
वृक्षपर्वत भ्रमरगजसिंहसहकारादिवृक्षपुष्पस्तत्रक पुलिन्दकतस्करमृगादय आधेयम् I
गजस्य आदर्शसिन्दूरभूषणाङ्कुशवरत्रागुडिकोष्टक पताकायोधमुखपटकर कुकुम्भस्थल-
दन्तकर्णपादादद्य आधेयम् । मण्डपस्य कुम्भलतास्तम्भचन्द्रोदयचन्दनमालामुकाव चूल-
पुष्पप्रकरादय आधेयम् । विन्ध्यस्य गजनर्मंदादय आधेयम् । हिमाचलस्य गङ्गाहिम-
कस्तूरिकामृगदेवदारु किन्नरौषधिचामरप्रभृतय आधेयम् । मलयाद्रेश्चन्दनदक्षिणानिलादय
आधेयम् । रोहणस्य रत्नाचाधेयम् । कैलास्य शिवगौरीमानसघनदादय आधेयम् ।
गृहस्य स्तम्भकपाटद्वारादय आधेयम् ॥
 
M