This page has not been fully proofread.

स्तबकः १ ]
 
काव्यकल्पलतावृत्तिः ।
 
धुतिमुख्यानां रविः, कलाचन्द्रिकाघादीनां चन्द्रः अमुना प्रकारेण स्वस्वगुणैः सर्वे
पदार्था आधारा भवन्ति ॥
 
रामाद्याः केवलैः क्वचित् ॥ ४२ ॥
 
रामप्रमुखाः स्वगुणैः केवलैन्यायप्रमुखैराधाराः, रूपकं भवति । यथा - न्याये रामः ।
सन्धाय चाणक्यः । अहङ्कारे रावणः, दुर्योधनश्च । शौयें रामसिहौ । साहसे विक्रमा-
दित्यजीमूतवाहनौ । महसि मार्तण्डः । धीरत्वे रामः । शक्तौ कार्तिकेयः । श्रियाँ
विष्णुः । विद्यायां भारतीबृहस्पतिशुक्राः । दाने कर्णशिबिबलिकल्पद्रुमकामधेनुचिन्ता-
मणयः । शरणे शिबिवज्रायुधजीमूतवाहनाः । वाण्यां वाल्मीकिः । शमे रामः ।
कलास चन्द्रः । माने युधिष्ठिरहरिश्चन्द्रौ । औचित्ये गुरुः । भक्तौ लक्ष्मणः । स्थैयें मेरुः ।
विवेके बृहस्पतिः । कीर्ती रामः । विनये लक्ष्मणः । प्रज्ञायां गुरुः । प्रतिष्ठायामिन्द्रः ।
दयायां युधिष्ठिरः, जिनेन्द्रश्च । आज्ञायां लङ्केश्वरः । लावण्ये समुद्रः । सौहादें सुग्रीवः ।
गाम्भीर्ये समुद्रः । सौभाग्ये कामः । शोभायामिन्द्रः । उद्यमे रामः । गतौ हंसगज-
वृषभाः । स्वरे पिकवीणाहंसके किमधुकराः । रूपे कामनलकूबराशिवनेयकुमारपुरूरवो-
नकुलाः । शमे मुनिः । ब्रह्मव्रते गाङ्गेयस्कन्दशुकहनुमन्नारदाः । ज्योतिषे वराहमिहिर
सहदेवौ । गणिते श्रीधरायः । नाट्यबेदे भरताचार्य: । गोते तुम्बुरुकिन्नराप्सरसः ।
नृत्ये हरः । वाद्ये नन्दी कवितायां वाल्मीकिव्यासकालिदासाद्याः । वैद्यके धन्व
न्तरिः । विषनिग्रहे पीहुलि: । दोषनिग्रहे हनुमान् । लक्षणे पाणिनिः । तकें दिङ्नाग-
धर्मकीत्युंयोतनकरादयः । छन्दसि पिङ्गलाचार्यः । अश्वहृदयज्ञाने, रसवत्याञ्च
नलः । कामशास्त्रे वात्स्यायनः । नीतिशास्त्रे चाणक्यः । पुरुषस्त्रीलक्षणे समुद्रः ।
वेदे ब्रह्मा । रसवादे व्याडिनागार्जुनौ । धारावेधे अर्जुनः । धनुषि पिनाकी
इन्द्रः । चक्रे विष्णुः । गदायां भीमः । पाशे वरुणः । दण्डे यमः
शक्को कार्तिकेयः । चन्द्रहासे रावणः । लाङ्गले बलभद्रः । परशौ परशुरामः । वास्तु-
शास्त्रे विश्वकर्मा । मल्लविद्यायां चाणूरमल्लः । छुरिविद्यायां वेतालभृगू मायायां
विष्णुः । धूर्त्तत्वे मूलदेवः । परोपकारे जीमूतवाहनः ।
 
वज्रे
 
1
 
COM
 
अथ दोषः - कुचक्रमणे उष्ट्रखरटगालाः । कुचरे उष्ट्रमार्जार खरघरट्टका कधूक.
टिट्टिभाः । कायकृशत्वे वेतालभृङ्गिरिटी । क्रौयें मार्जारः । दम्भे बकः । नीचगमने
नदी । चापल्ये मर्कट: । कोपे सर्पः । भीरुत्वे शृगालः । तुच्छत्वे हस्तजलम् ।
मानादिषु दुर्योधनादी नामुदाहरणम् ।
 
माने दुर्योधनो, न्याये रामः, सत्वे युधिष्ठिरः ।
आज्ञायां लशः, शकौ कार्तिकेयो धराधवः ॥
 
वाक्चातुर्ये ठराचार्यो, गम्भीरत्वे सरित्पतिः ।
 
मेरुधैँयें, हरिः शौयें, प्रतापे तपनो नृपः ॥
 
• अथवा एभिः सन्धादिकैर्गुणैः सन्धादिगुणवन्तश्चाणक्यादयो जीयन्ते । यथा-
सन्धानिर्जितचाणक्यो माननिर्जितरावणः ।
 
-
 
-