This page has been fully proofread once and needs a second look.

उपमायां हि सिद्धायां बह्वलङ्कारसिद्धयः ॥ ३६ ॥
 
तथाहि--
 
उपमैव विनेवादि रूपकं वदनं विधुः ।
इयमेकस्योपमानोपमेयत्वे त्वनन्वयः ॥ ३७ ॥
 
मुखं मुखमिवेयं तु स्मरणं स्मृतियोगतः ।
प्रियामुखं च सस्मार प्रियः पूर्णेन्दुदर्शनात् ॥ ३८ ॥
 
ससन्देहस्तु किंयोगे किं मुखं किं सुधाकरः ।
इदं नेदं किन्त्वादिकयोगतोऽपह्नुतिर्मता ॥ ३९ ॥
 
नेदं मुखं शशी किन्तु स्युरपह्नुतिवाचकाः ।
छलाकृतिशरीरार्थमुख्याः शब्दा यथा तथा ॥ ४० ॥
 
त्रिमार्गामिषतो व्यापत्त्वत्कीर्तिर्जगतां त्रयम् ।
इयं भेदे द्वयोर्ध्यतिरेको मुखं शशी समौ ॥ ४१ ॥
 
आद्यं निर्लाञ्छनमियं प्रतिपत्तुर्भ्रमे भवेत् ।
भ्रान्तिमान् पीडितश्चक्रो मुखं प्रेक्ष्य शशिभ्रमात् ॥ ४२ ॥
 
एवं भवन्त्युपमाया बहुरूपाः प्रवृत्तयः ।
अन्तस्थरूपकोत्प्रेक्षाप्युपमोपक्रमाद्भवेत् ॥ ४३ ॥
 
यथा--
 
पल्लवैर्नवरागेव सकटाक्षेव षट्पदैः ।
हस तीव हसतीवस्मितैः पुष्पैर्वसन्तागमने वनी ॥ ४४ ॥
 
उत्प्रेक्षाद्योतकाः शङ्के मन्ये नूनमिव ध्रुवम् ।
जाने किलाऽऽदयो ज्ञेयाः प्रायेणेयं क्रियोद्भवा ॥ ४५ ॥
 
क्रियाप्रपञ्चनं क्रियास्तबकतो ज्ञेयम् । उपमारूपकयोरनेकालङ्कारबीजत्वादुपमा पूर्वं
प्रपञ्चिता ॥
 
रुपकं प्रपञ्च्यते, यथा रूपकं चतुर्द्धा भवति--भेद्यम्, तोष्यम्, आधारः, आधेयम् ।
 
वनाहवे भवेद् भेद्यं रूपकं तोष्यमम्बुदे ।
भुव्याधारस्तथाऽऽधेयं सिंहे वर्ण्यविशेषतः ॥ ४६ ॥
 
वनादिति पदं दवे अम्बुदे भुवि सिंहे च योज्यम् ॥
 
भेद्यं रूपकं यथा--
 
ध्वान्ताहिविषनागाब्धिशैलवृक्षधनाग्नयः ।
रक्षःपङ्कादयो भेद्या रूपकोक्त्यारिरूपकैः ॥ ४७ ॥
 
यथा ध्वान्ते रविचन्द्ररत्नदीपकाः, सर्पाणां गरुडनकुलमयूरजाङ्गलीमन्त्रवादिनः,
विषस्य नीलकण्ठामृते, हस्तिनां सिंहाङ्कुशवार्यालानस्तम्भादिकाः, समुद्रस्याऽगस्त्य-
प्रलयानलवाडवपरशुरामाग्नेयबाणतरीसेतुहनुमन्मन्दराद्रयः, गिरीणां वज्रम्, वृक्षस्य
लतायाश्च दवानलवायुनदीरयहस्तिविद्युत्पातकुठाराः, मेघस्य वातवर्षात्ययौ, अग्नेर्जलमेघौ
रक्षसां रामकृष्णौ, पङ्कस्य शरदागमादित्यतापजलानि, आदिशब्दाद्रवेः राहुमेघागम-