2023-04-12 04:24:46 by ambuda-bot
This page has not been fully proofread.
स्तबकः १ ]
काव्यकल्पकतावृत्तिः
उपमायां हि सिद्धायां बहलङ्कारसिद्धयः ॥ ३६ ॥
तथाहि-
यथा.
op
उपमैव विनेवादि रूपकं वदनं विधुः ।
इयमेकस्योपमानोपमेयत्वे त्वनन्वयः ॥ ३७ ॥
मुखं मुखमिवेयं तु स्मरणं स्मृतियोगतः ।
प्रियामुखं च सस्मार प्रियः पूर्णेन्दुदर्शनात् ॥ ३८ ॥
ससन्देहस्तु किंयोगे किं मुखं किं सुधाकरः ।
इदं नेदं किन्त्वादिकयोगतोऽपन्हुतिर्मता ॥ ३९ ॥
नेदं मुखं शशी किन्तु स्युरपन्हुतिवाचकाः ।
छलाकृतिशरीरार्थमुख्याः शब्दा यथा तथा ॥ ४० ॥
त्रिमार्गामिषतो व्यापत्त्वत्कीर्तिर्जगतां त्रयम् ।
इयं भेदे द्वयोर्ध्यतिरेको मुखं शशी समौ ॥ ४१ ॥
श्राद्यं निर्लाञ्छनमियं प्रतिपत्तुर्भ्रमे भवेत् ।
भ्रान्तिमान् पीडितश्चको मुखं प्रेक्ष्य शशिभ्रमात् ॥ ४२ ॥
एवं भवन्त्युपमाया बहुरूपाः प्रवृत्तयः ।
अन्तस्थरूप कोत्प्रेक्षाप्यु पमोपक्रमाद्भवेत् ॥ ४३ ॥
१०९
पल्लवैर्नवरागेव सकटाक्षेव षट्पदैः ।
इस तीवस्मितः पुष्पैर्वसन्तागमने वनी ॥ ४४ ॥
उस्प्रेक्षाद्योतकाः शके मन्ये नूनमिव ध्रुवम् ।
जाने किलाऽऽदयो ज्ञेयाः प्रायेणेयं क्रियोद्भवा ॥ ४५ ॥
क्रियाप्रपञ्चनं क्रियास्तबकतो ज्ञेयम् । उपमारूपकयोरने कालङ्कारबी जत्वादुपमा पूर्व
प्रचिता ॥
रुपकं प्रपन्च्यते, यथा रूपकं चतुर्द्धा भवति-भेद्यम्, तोष्यम्, आधारः, आधेयम् ।
बनाइवे भवेद् भेद्यं रूपकं तोष्यमम्बुदे ।
भुव्याधारस्तथाऽऽधेयं सिंहे वर्ण्यविशेषतः ॥ ४६ ॥
बनादिति पदं दवे अम्बुदे भुवि सिंहे च योज्यम् ॥
भेद्यं रूपकं यथा-
ध्वान्ताहिविषनागाब्धिशैलवृक्ष धनाग्नयः ।
रक्षःपङ्कादयो भेद्या रूपकोक्त्यारिरूपकैः ॥ ४७ ॥
यथा ध्वान्ते रविचन्द्ररत्नदीपकाः, सर्पाणां गरुडनकुलमयूरजाङ्गलीमन्त्रवादिनः,
विषस्य नीलकण्ठामृते, हस्तिनां सिंहाङकुशवार्यालानस्तम्भादिकाः, समुद्रस्याऽगस्त्य.
प्रख्यानलवाडवपरशुरांमाग्नेयबाणतरीसेतु हनुमन्मन्दराद्रयः, गिरीणां वज्रम्, वृक्षस्य
लतायाश्च दवानलवायुनदीरयह स्तिविद्युत्पात कुठाराः, मेघस्य वातवर्षात्ययौ, अग्नेर्जलमेघौ
रक्षसां रामकृष्णौ, पङ्कस्य शरदागमादित्यतापजलानि, आदिशब्दाद्रवेः राहुमेधागम-